This page has not been fully proofread.

१३
 
घृतमिति । अत्र प्रथमव क्यगतश्चशब्दो बाक्यार्थसमुच्चयायोत्तरत्रः नुषञ्जनीयः ।
येन स्थाणुना, अरानाय भोजनाय, कपालं शिरोऽस्थि, धृतं चाधारि । यस्य भिक्षा (न्न? टन)
लब्धपात्रतां कपालोऽगम दित्यर्थः ।
 
प्रथम आश्वासः ।
 
66
 
" कपालोऽत्री क्वचित् स्त्री च कपालीति शिरोस्थनि ।
घटादिशकले केचित्पुनः शकलमात्रके ॥ "
 
इति केरा॒यः । अनेन निष्किञ्चनत्वस्य पलाका (?) दर्शिता । यममरनायकपालम् अमर-
नायका इन्द्रादयः तान् पालयनीति तथा । 'कर्मण्यण् ' ( पा० सू० ३-२-१ )
इत्यग् । जगदी घराण,मपीचरमित्यर्थः । प्राहुः कथयन्ति । बुधा इति शेषः ।
अनेन समृद्धेर विंशय आवेदितः । परिभूत इति । 'अर्थाद्विभक्तिविपरिणाम' इति
यात् तृतीयान्नया विपरिणम यत्येितत् पदमत्रानुषज्यते । अथवा उत्तरवाक्या
येनेत्ये तदानुकर्षणीयम् । येन स्थाणुना, मारोऽपि ब्रह्मादिकीटकपर्यन्तैः प्राणिभि-
रनिवार्यप्रसरः कामोऽपि, परिभृतश्च तृतीयनेत्राग्निना भस्मीकृतः । अपिशब्दः परिभवं
प्रति कामस्य कमावेऽत्यन्तासंभाव्यतां द्योतयति । वाक्यार्थसमुच्चायको वापिशब्दः ।
येन मारः परिभूतोऽसीत्यनेन विरागतातिशयः प्रकाशितः । येन स्वविग्रहे स्वशरीराधे,
उमा पार्वती, आरोपि स्थापिता येन प्रेमाशियत् शरीराधमपि दत्तमित्यर्थः ।
अनेन रागातिशय उक्तः । परस्परविरुद्धवर्नाणां युगपदैक, विकरण्यमुपपादयितुं विशि-
नष्टि-भगवतेति । ऐश्वर्यादिगुणषट्कं भगम् ।
 
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ "
 
99
 
सोऽम्यास्तीति भगवान्। (उभयथापीश्वरत्वमेव भगवत्त्वम् ?) अघटितघटयितृत्वं ही श्वरत्वात् ।
 
" उत्पत्तिं च विनाशे च भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ "