This page has not been fully proofread.

सव्याख्ये त्रिपुरदह ने
 
शङ्काद्वयमेकप्रहारेणाभिहन्तुं
 
लोकद्वयेन ईश्वरसत्तां साधयन् स्थाणुं वर्णयति
 
परमं धाम ध्येयं यो विभ्रति च भ्रुवो बुधा मध्ये यम् ।
यं विभुमायतयोगा विचार्य जानन्त्यकृत्रिमा यतयो गाः ॥ ११ ॥
 
१२
 
परममिति । यः स्थाणुः परममुत्कृष्टं धाम तेजो भवति । नन्वस्य
स्वरूपं तेजश्वेदादित्यादितेजोवत् चाक्षुप्यं स्यात् । तथा च न भवति ।
तत्तेजस्त्वे किं प्रमाणमित्यत्राह - ध्येयमिति । ध्यातव्यं ध्यानचाक्षुष्यमेवेदं
तेजः, न लौकिकतेजोवन्मांसचक्षुर्ग्राह्यमित्यर्थः । अनेन स्वानुभूतिरीश्वरसद्भावे
प्रमाणं, स्वरूपं तेज इत्युक्तं भवति । उक्तं च भवति -
"स्वानुभूत्येकमानाय नमश्शान्ताय तेजसे ।"
 
-
 
बुधा
 
इति । ननु के ध्यातारः । कुत्र ध्यायन्तीत्यत्राह - बिभ्रतीति ।
निखिलविद्यापारदृश्वानो योगिनः । यं तेजोरूपं स्थाणुम् । भ्रुवोर्मध्ये विभ्रति
दधति च । दीपज्वालाकारवद् भ्रूमध्ये ध्यायन्तीत्यर्थः । अथ प्रमाणान्तरं
स्वरूपान्तरं चाह – यमिति । चशब्दोऽनुपज्यते । यतन्यासिनः । अ-
त्रिमा: अपौरुषेयाः । गाः वाचः, वेदान्तवाक्यानि । विचार्य यं स्थाणुं
विभुं व्यासं अखण्डपरिपूर्णाद्वयं ब्रह्म जानन्ति च अवगच्छन्ति ।
 
-
 

 
''ये निर्जितेन्द्रियग्रामा यतयो यतिनश्च ते ।"
 
-
 
G
 
इत्यमरः । कीदृशा यतयः । आयतयोगा: आयतो दृढो योगश्चित्त-
वृत्तिनिरोधो येषां ते, तथा श्रुतियुक्तिसहकृतयोगाभ्यासवन्तो यतयः यं ब्रह्मत्वेन
साक्षात्कुर्वन्तीत्यर्थः । अनेन श्रुतिरीश्वरसद्भावे प्रमाणं, स्वरूपं च व्याप्तं ब्रह्म
इत्युक्तं भवति । यं प्रभुमिति क्वचित् पाठो दृश्यते । तदा जगत्सर्गादौ समर्थ
ब्रह्म जानन्तीत्यर्थः ॥ ११॥
 
त्वेन वर्णयति –
 
अथास्य सकलं च रूपान्तरं तत्र प्रमाणमपि दर्शयन् परस्परविरुद्धाचार-
धृतमशनाय कपालं येन च यं प्राहुरमरनायकपालम् ।
परिभूतो मारोपि स्वविग्रहे येन भगवतोमारोपि ॥ १२ ॥