This page has not been fully proofread.

प्रथमं आश्वासः ।
 
११
 
अत्र निजेत्यनुक्तावपि तनोरात्मीयत्वावगतौ स्त्यां यो निर्ज देइमपि
प्रजाप्रमोदसाधनतामनयत् तस्य किमुतान्यदैहिकं धनक्षेत्रादिकम् ।
तत्तु तत्सा-
धनमेवेति द्योतयितुं निजयेत्युक्तम् । नेत्रप्रीतेस्तु चेतनत्वमेवोपाधिः । न तु
मनुष्यत्वादिकमिति द्योतयितुं प्राणिनामित्कम् । काव्यनिर्माणस्य कालकथ-
नेन स यच्छीलस्तच्छीलाः प्रकृतयोऽस्य भवन्तीति न्यायात् ताच्छील्यमेव मम
काव्यनिर्माणे प्रेरकं, नतु कवित्वशक्तिरिति द्योत्यते । राज्ञः कवित्वं च कविलो-
कनत इत्यनेन दर्शितम् ॥ ९ ॥
 
इत्थमुपोद्धातरूपमर्थमभिधाय प्रतिपाद्यमर्थ प्रस्तौति
 
अथ विजहारामेयं तारकमुत्साद्य गिरिमहारामे यम् ।
सोमः समहासेनः स्थाणुः सह नन्दिनेन्दु सम हासेन ॥ १० ॥
 
-
 
अथेति । अरम्भार्थोऽथशब्दः । अथाभिधित्सितोऽर्थ आरभ्यते इत्यर्थः ।
"मङ्गलानन्तरारम्भप्रश्नकाण्वथो अथ" ।
 
इत्यमरः । अयं लोकशास्त्रप्रसिद्ध्यतिशयात् सर्वजनमनःपुरोवर्ती ।
स्थाणुश्शिवः । अमेयं शौर्यादिभिरियत्तार हतम् । तारकं तारकाख्यमसुरम् ।
उत्साद्य निहत्य । गिरिमहारामे गिरौ कैलासे यो महाराम: आरामवत् स्थितो
वनप्रदेशः तस्मिन् । विजहार कृतकृत्यतया क्रीडितवान् । कैस्सहेत्यत्राह - सोम
इति । उमा पार्वती तथा सह वर्तमानः ।
 
"उमा कीर्त्यामतस्यां च गिरिजायां श्रियामपि । "
 
इति केशवः ।
 
समहासेनः महामेनो गुहः तेन च सह वर्तमानः । नन्दिना सह
नन्दी नन्दीश्वरः तेन सार्धम् । कीदृशेन । इन्दुसमहासेन धावल्यादिन्दुना समः
तुल्योः हासः स्मितं यस्य स तथोक्तः । अतिवल्लभत्वात् स्वैरविहारेऽपि उमा-
महासेनयोस्तृतीयोऽइमा समिति मत्वा हर्षातिरेका दुत्पन्नहासेन ॥ १० ॥
 

 
ननु बालवेतालवत् लोकप्रवादमात्रसिद्ध एवायम् । वस्तुतस्तु परमेश्वर
इति कमिनास्त्येव तत्सत्वे प्रमाणाभावात् । सत्त्वमिति