This page has not been fully proofread.

१०
 
इति केशवः ।
 
सोऽपि स्वपइपयोजनसे श्रियस्सम्पादकश्च, मूतिर्भस्म तद्धारकश्च, व्याल-
पतिभिः भूषणतां प्राप्तैः स्फुरत्करब्ध, इति शिवविषयो योऽर्थः स च प्रकरणे -
नाभिधाशक्तेः राजनि नियन्त्रितत्वाद् ध्वनेऽपय एव ॥ ८ ॥
 
* इत्थं विरचितां राजस्तुतिं प्रकृत उपयोजयन्नाह -
 
निजया तन्वा नेत्रप्रमोदनं प्राणिनां वितन्वानेऽत्र ।
मतिबलमासाद्य मितं पुरदहनं रविभुवा समासाद् याभनम् ॥ ९ ॥
 
सव्याख्ये त्रिपुरवहने
 
निजयेति । अत्र एवं दर्शितगुण विशिष्टे एतस्मिन् क्षिनिभृते । निजया
आत्मीयया । तन्वा देहेन । प्राणिनां सचेतनानां जन्तूनाम् । नेत्र-मोदनं नयन-
प्रीतिं वितन्वाने । रविरिति कवेः पितुर्नाम, रखेर्भवतीति रविभूः, वेभुवेत्यात्मनः
तटस्थीकारेणोक्तिः; मया इत्यर्थः । मितं अल्पम् । मतिबलं बुद्धिशक्तिम् । आसाद्य
प्राप्य इत्यौद्धत्यपरिहाराय । पुरदहनं त्रिपुरदाहाख्यं श्रीपश्वरचरितम् ।
समासात् समासस्संक्षेपः तम।श्रित्येति ल्यबशेषपञ्चमी, ग्रन्थतः नक्षेप्येत्यर्थः ।
यमितं, यमशब्दो युगलपर्यायः तस्माद्यमवदाचष्ट इति विगृह्य "तत्करोति
तदाचष्ट" इत्याचष्ट इत्यर्थे "प्रातिपदिकाद्धात्वर्थे बहुलमिठवच्च" ( ० सू०) इति
णिचि इष्ठवद्भावे च, "तुरिष्ठे मेयस्तु" (पा० सू०६ ४. १५) इत्यधिकृत्य
६.
"बिन्मतोर्लुक्" (पा० सू० ५. ३, ६५ ) इति मतोलुकि, म:' (पा० सू०
६. ४. १४३) इति टिलोपे च कृते यमि इति सिद्धयति ।
- मात कर्मणि
क्तप्रत्यये रूपम् । यमकत्वेन संदृब्धमित्यर्थः ।
 
" निजं तु त्रिस्सनातने ।
आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् ॥
 
इति केशवः ।
 
* रामसमत्वादेव स्वष्टा रामाख्यमकृत मत्वा देवः ।
यं स च रक्षोपायं चक्रेऽस्य च कर्मजनितरक्षोपायम् ॥
इत्ययं श्लोकः नवमतया ग्रन्थान्वरेपूपर्लभ्यते ।