This page has not been fully proofread.

स्वपदपयोजनते यं सदैव सम्पादकं श्रियो जनतेयम् ।
भूतिघरं व्यालपतिस्फुरत्कर राजशेखरं व्यालपति ॥ ८ ॥
 
प्रथम आश्वासः ।
 
स्वदेति । इयं भूलोकान्तवर्तिनी जनता जनसमूहः । यं राजशेखरं
व्यालपति राज्ञां शेखरवदलङ्कारभूतत्वाद् राजशेखर इति कथयति । कीदृश
इत्यत्राह – स्वपदेति । स्वपदपयोजनते स्वपद्पयोजयोः चरणाम्बुजयोः नते
इष्टार्थसिद्धये प्रणते जने । सदैव सर्वस्मिन् काल एव । श्रियः सम्पदः ।
सम्पादकं दातारमित्यर्थः ।
 
"श्रीरिन्दिरायां शोभायां स्यात् सम्पत्तिलवङ्गयोः ।"
 
इति केशवः ।
 
अनेन दानपरत्वमुक्तम् । राज्ञां हि धर्मस्सर्वस्वदानमेव । उक्तं च
 
मुरारिणा -
 
हुतमिष्टं च तप्तं च धर्मश्चायं कुलस्य ते ।
गृहात् प्रतिनिवर्तन्ते पूर्णकामा यदर्शिनः ॥
 
-
 
इति । सर्वदा दानस्य प्रभूतं रत्नं विनानुपपत्तेस्तदुपपादनाय विशिनष्टि –
भूतिधरमिति । भूतिस्सम्पत् ।
 
''भूतिर्भस्मनि सम्पत्तावुत्पत्तौ भरुटेऽपि च ।"
 
इति केशवः ।
 
धरतीति धरः पचाद्यच् । भूतेर्धर इति विगृह्य "कृद्योगा च षष्ठी सम-
स्यत इति वक्तव्यम्" (वा०, २. २. ९.) इति समासः । प्रभूतधनमित्यर्थः ।
तथा व्यालपतिस्फुरत्करं व्यालपतिः सर्वश्रेष्ठः तद्वत् स्फुरन्तौ शोभमानौ करौ
यस्य स तथेोक्तः। उपलक्षणमेतद्वयवान्तरसौष्ठवस्य । अनेन महापुरुषलक्षणशा-
लित्वमुक्तम् । अत्र राजा चन्द्रः शेखरशिरोभूषणं यस्य स राजशेखरश्शिवः ।
"राजा ना सोमवल्यां च चन्द्रे च द्वे तु पार्थिवे ।
क्षत्रिये च प्रभौ च त्रिरस्मिन्नर्थत्रये यदा ॥
 
स्त्र्यर्थे वृत्तिं तदा राज्ञि"
 
-