2024-01-01 06:19:54 by ambuda-bot
This page has not been fully proofread.
सव्याख्ये त्रिपुरदहने
वीक्षणादेव हेतोः, क्षुद्रवति क्षुत् क्षोदः पीडा तां राति ददातीति क्षुद्रा नृशंसा
व्याघ्रादयो हिंसा इत्यर्थः; तद्युक्ते । तथा बहुविपदि बढ्यो विविधा विपदः
कण्टकशङ्कुदवाग्न्यादिभ्यः पादाघातदेहदाहाद्यापदः यस्मिन् तादृाश ।
भृति पर्वते पद नि अङ्घ्रिन्यासानं कुर्वन् दिक्षु द्रवति धावति ।
" क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः ।"
क्ष्मा-
इति केशवः ।
"पदमौ शरे त्राणे व्यवसायापदेशयोः ।
चिह्नेऽघ्रिचिह्नेऽङघ्रिन्यासे पद्यमार्गेऽशुवस्तुनोः ॥
स्थाने वाक्ये सुप्तिङन्ते माने पञ्चदशाङ्गुली । "
इति च । अयमर्थः यस्य शत्रवः सैन्यदर्शन।देव भीताः पलाय्य
गुहासु तिष्ठन्तस्तत्रापि तदागमनभिया थातुमशक्ताः नानादिक्षु पलायन्ते
अनेन प्रतापवत्ता दर्शिता ॥ ६ ॥
-
साधूनां पाता यः स्थिरत्रतो यश्च पापिनां पाताय ।
यस्मादुर्व्यापारं प्रीतिं यस्यामलं विदुर्व्यापारम् ॥ ७ ॥
पर्वत -
इति ।
साधूनामिति । यःसाधूनां सतां पाता रक्षिता च भवति । यः
पापिनां मर्यादातिक्रान्तानां पाताय नाशाय स्थिरत्रतश्च स्थिरं दृढं व्रतमभङ्-
ग्यानुष्ठानं यस्य स तथोक्तः । आभ्यां शिष्टरक्षणं दुष्टनिग्रहश्चोक्तः । शिष्ट-
रक्षणादपि दुष्टनिग्रहस्य प्रजाप्रीतिकरत्वं वक्तुं पापिनां पतं विशिनष्टि - यस्मा-
दिति । यस्मात् पापिनां पाताद्धेतोः उर्वी उर्वीस्थो जनः । अरमत्यर्थ, शिष्ट-
रक्षणादप्यधिकम् । प्रीति मुदम् आप पूर्वमादिराजादेवारभ्य प्राप्तवती तस्मै
पापिनां पातायेति सम्बन्धः । ननु यस्मान्महीभृतः उर्वी सत्पालनात् अरं प्रीति-
मापेत्यर्थः कस्मादुपेक्षितः । उच्यते – कवेरुक्तिसमये राजा वर्त्तमान एव ।
अत एव क्षितिभृदस्ति, अरिर्दिक्षु द्रवति, व्यापारं विदुरिति, राजशेखरं व्याल-
पतीति चः । तस्यैव राज्ञः प्रजाप्रीतिकरत्वप्राप्तेः परोक्षत्वेन लिट्प्रयोगस्थानुपपत्ते-
रित्थं व्याख्यातम् । यस्य क्षितिभृतो व्यापारं प्रवृत्तिम् । अमलं निर्दोषं विदुः
जानन्ति, सन्त इति शेषः। अनेन विहित चारपरत्वमुक्तम् ॥७॥