2024-01-01 06:19:54 by ambuda-bot
This page has not been fully proofread.
प्रथम आश्वासः ।
७
तथात्वे हि नीलवर्णत्वमुक्तमनुपपन्नं स्यात् । जगदेनोहदिति । अत्रार्था-
द्विभक्तिविपरिणाम इति नीत्या पञ्चम्यन्तो यच्छन्दः प्रथमान्ततया विपरिणतो
नुषज्यते । यः जगदेनोहृत् जगतो जगद्वासिनो जनस्य यदेनः पापं तद्धरति
नाशयतीति तथोक्तः । अत्राम्बुधिरिव व्यास: सुधाम्भ इव भारतमिति विगृह्य
"उपमितं व्याघ्रादिभिस्सामान्याप्रयोगे" (१० सू० २.१५६) इति समासं
विधाय उपमाश्रयेणापि व्यख्यातुं शक्यते । अतः ऽत्रोपमा पकयोस्साधकबाध
काभावात् सन्देहसङ्करः ॥ ५ ॥
अथ प्राप्सितप्रबन्धप्रचयगमनाय
अस्ति स कविलोकनतः क्षितिभृदरिर्यस्य सैनिकविलोकनतः ।
बहुविपदि क्षुद्रवति क्ष्माभृति कुर्वन पदानि दिक्षु द्रवति ॥ ६ ॥
-
"यद्यदाचरति श्रेष्ठस्तत्तदेवेतरे जनाः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥
इति न्यायाद्र जपरिग्रहादेव लोकपरिग्रहः स्याद्वाजपरिग्रहश्च तत्प्रशंसयैव
भवेदिति मन्यमानः त्रिभिः श्लोकै तदानीन्तनं राजानमभिष्टौति -
:
अस्तीति । स तादृशः क्षितिभृत् राजा अस्ति विद्यते । जन्म-
साफल्यात् स एव सत्तां लभत इत्यर्थः । क्षितिभृतरातत्वेऽपि कवेरुक्ती
विद्यमानत्वाल्लट्प्रयोगः। अद्यापि यशश्शरीरत्वेन विद्यमानत्वाद्वा । कीदृशो-
ऽसावित्यत्राह - कविलोकेति । कविलोकनतः कवयो विद्वांसः काव्यकृतश्च,
उभयेऽप्यन्त्र विवक्षिताः तेषां लोके समूहे विषये नतः प्रदीभूतः । "प्राज्ञकाव्य-
कृतौ कवी" इत्यमरः । अनेन स्वयं विद्वान् काव्यकृञ्चेत्युक्तं भवति ।
वैदुष्यं कव्यकृत्त्वञ्च विना तन्नमनानुपपत्तेः । एतद्धि जन्मनः फलमिति भावः ।
कविलोके नतः इति वा विग्रहः । वैदुष्यं काव्यकृत्त्वं च सर्वसाधारण एव
गुणः । अथ राजैकविषयान् गुणान् दर्शयति - अरिरिति । यस्येत्येतत्
( "एकस्यैवोभयार्थत्वे तन्त्रमित्यभिधीयते ।
तच्च काकाक्षिवत् कापि भित्तिदीपसमं कचित् ॥ "
इत्युक्तलक्षणेन भित्तिदीपायमानेन तन्त्रेणारिसैनिकयोः संध्यते । यस्य
क्षितिभृतः अरिः शत्रुः । यस्य सैनिक विलोकनतः सैनिकानां भटानां विलोकनतः