This page has not been fully proofread.

सभ्याख्ये त्रिपुरदइने
 
-
 
नतयोपादानमितिं बोद्धव्यम् । सरस्वतीम्फुरणस्य किं फलमित्याशङ्कायां तो
विशिनष्टि - या सरस्वती उत्तुङ्ग तमोहान्या उत्तुङ्गस्यातिमहतः तमोगुणस्याज्ञान-
कारणस्य हान्या नाशेन । नित्यं नियमेन, लोकान् भक्तिपुरस्सरं भजमानान्
जनान् । गतमोहान् नष्टाज्ञानान् करोति । "लोकस्तु भुवने जने" इत्यमरः।
 
"तमस्तु क्की पापे नरकशोकयोः ।
 
गुणत्रयस्यान्यतमे साङ्ख्यानां प्रकृतौ बले ॥
अज्ञाने ज्वलति ध्वान्ते रात्रौ राहौ च नामतः ।"
 
इति केशवः ।
 
"मोहः पुनः स्यादज्ञाने मूर्च्छायां क्रोध एव च ।
अजयस्त्वाइ तन्द्रायाम्"
 
इति च ।
 
सरस्वत्य मन्तः स्फुरितायां सकारणाज्ञाननिवृत्त्या शुद्धे मनसि विशिष्ट-
शब्दार्थप्रतिभया भवितव्यामति भावः ॥ ४ ॥
 
अथाभिधित्सितस्यार्थस्य इतिहास पुराणमूलत्वात् तद्याथातथ्यस्फुरणाय
तत्प्रणेतारं व्यासं प्रार्थयते.
 
-
 
यो भासा मा वियतस्तुलयति भारतसुषाम्भसाभावि यतः ।
जगदेनोहृदयमलं हरतु व्यासाम्बुषिश्च नो हृदयमलम् ॥ ५ ॥
 
-
 
य इति । चशब्दः समुच्चये। अयं वियत्सदृश वर्णत्वादिविशिष्टो
व्यासाम्बुधिश्च, न केवलं सरस्वत्येव व्यासाम्बुधिरपि । व्यासाम्बुधिरिति मयूरव्यं-
सकादित्वात् रूपकसमासः । नः अस्माकम् । हृदयमलं हृदयस्य मलमप्रतिपत्त्य-
न्यथाप्रतिपत्तिलक्षणदोषम् । अलमत्यर्थं हरतु अपनयतु, प्रार्थनायां लोट् । अम्बु-
घित्वमुपपादयितुमाह - य इति । यो व्यासाम्बुधिः भासा निजया देहकान्त्या ।
बियतः आकाशस्य माः भासः । बहुवचनमविवक्षितम् । कान्तिमित्यर्थः ।
तुलयति उन्मिमीलयते । वियत्सदृशो नीलाभ इत्यर्थः । वस्तुतः वियतो नीरू -
पत्वेऽपि लोकप्रतीत्यनुसारेणैवमुक्तम् । यतः यस्माद् भारतसुधाम्भसा भारतं
श्री महाभारताख्य इतिहासः तदेव यत् सुधाम्मः पीयूषजलं तेन । अभावि उद्
भूतम् । अत्रामृतोत्पत्तिभूरम्बुधिरित्येव विवक्षितम् । न तु क्षीराम्बुधिरिति ।