This page has not been fully proofread.

प्रथम आश्वासः ।
 
बदङ्गुष्ठ । ग्रस्पर्शाद सह्यगौरव
कैलासा धरशायितया निश्चेष्टीकृत इत्यर्थः । कस्य.
चिद्रक्षसो जडीकरणेन को विभोरुत्कर्ष इत्याशङ्कय नृभुजो लोकोत्तरता-
माविश्चिकीर्षुः तं विशिनष्टि - कुलिश मिति । यस्य नृभुजः, उरसि वक्षःस्थले,
कुलिशं ऐन्द्रं वज्रं, चक्रं वैष्णवं सुदर्शनं, उरुमेहान् असिः नैर्ऋतः खड्गश्च ।
उपलक्षणमेतदन्येपामच्या युधान्तरस्य । प्रतानि न चक्रमुः पदविक्षेपं न चक्रुः ।
त्रैलोक्यनाथानामप्यायुधानि यदुरःस्थले निपत्य कुण्ठीचभूवुरित्यर्थः । तत्र हेतु:-
स्थेयास स्थिरतरे, शिलातलवदतिकठिने इत्युरोविशेषणम् । विभुं विशिनष्टि -
दहनेति । दहनो वहिः, विधुश्चन्द्रः, तोयं जलं, इन आदित्यः, द्यौराकाशं,
धरा भूमिः, आत्मा जीवः मरुद्वायुः एतन्मयेन अष्टमृत्यत्मकेनेत्यर्थः -
विश्वात्मनि परमेश्वरे एतदुपपन्न मिति भावः । तस्य विभोरिति पूर्वेण
 
9
 
सम्बन्धः ॥ ३ ॥
 
अथ विशिष्टशब्दार्थप्रतिभालाभाय वाग्देवतां प्रार्थयते
 
स्फुरतु सरस्स्वत्यन्त स्वच्छेन्दुकलेव नः सरस्वत्यन्तः ।
उत्तुङ्गतमोहान्या नित्यं लोकान् करोति गतमोहान् या ॥ ४ ॥
 
-
 
स्फरत्विति । सरस्वती शब्दाधिष्ठात्री परा देवता । नः अस्माकम् ।
अन्तः मनसि । स्फुरतु प्रकाशताम् । प्रार्थनायां लोट् । कीदृशी । अत्यन्तस्वच्छा
अंतिशयेन निर्मला शुद्धसत्त्वमयत्वाद्धवलेति यावत् । सरस्वती हि धवलवण ।
भवति । यथाहुः पञ्चाशद्वर्णभेदै रित्यादिना । कुत्र किमिवेत्यत्राह - सरस्स्वि ।
ति । सरस्सु जलेषु इन्द्कलेव शशिरेखेव । यथेन्दुकला जले प्रतिबिम्बतया
स्फुटं स्फुरति तथास्मन्मनसि सरस्वत्यपि स्फुरतु इत्यर्थः । उपमया सरस्वती-
स्फुरणस्य स्फुटोपलम्भता प्रत्याय्यते ।
 
-
 
"सरस्तु सलिले क्लोब तटाके तु नपि स्त्रियाम् ।
तु
तत्रापि स्त्र्यर्थवृत्तित्वे सरसीति स्त्रियां पुनः ॥
महासरस्सु सरसी दाक्षिणात्याः प्रयुञ्जते ।"
 
इति केशवः । पूर्णेन्दोरुपमानतायां सकलकत्वदोषसंभवाद् अत्यन्तस्वच्छत्वमुप-
मानस्य न स्यात् । तत्कलायास्तु कलकदोषो नास्त्येवेतन्दुिकलाया उपमा.