This page has not been fully proofread.

तृतीय अश्वासः !
 
१२३
 
:-
बबन्धुरिति । जनास्त्रैलोक्यवासिनः स्ववर्त्मनि स्वस्मिन्नात्मीये
वर्त्मनि मार्गे । स्वाधिकृते कर्मर्ण त्यर्थः । स्थितिं च बबन्धुरेव । कृतवन्त
इत्यर्थः । अत्रैवकारः क्रियासङ्गत्तत्वादत्यन्तायोगं व्यवच्छिनत्ति । जनेषु
स्वमार्गस्थितिरत्यन्तं बद्धैवेत्यर्थः । एवकारस्य त्रयोऽर्थाः • अयोगव्यव
च्छेदः अन्ययोगव्यवच्छेदः अत्यन्तायोगव्यवच्छेद्रश्चेति । तत्र विशेषण-
सङ्गतः अयोगं व्यवच्छिनत्ति । यथा देवदत्तो दण्ड्यवेति । विशेष्य -
सङ्गतोऽन्ययोग व्यवच्छिनत्ति । यथा देवदत्त एव दण्डीति । क्रियासङ्गतः
अत्यन्तायोगं व्यवच्छिनत्ति । यथा देवदत्तो दण्डी भवत्येव इति । पूर्व-
मसुरैर्बाधितत्वात् सर्वेषामपि स्वाधिकारे स्थितिरशक्यैवाभूत् । असुरेषु
हतेषु बाधक भावात सर्वेऽपि खाधिकारेऽत्यन्तं स्थितवन्त इत्यर्थः ।
स्ववर्त्म विशिनष्टि - बन्धुर इति । बन्धुरे सुन्दरे स्वाधिकृतत्वात्
शुभरूप इत्यर्थः ।
 
"बन्धुरस्तु द्वयोहंस त्रिस्तु सुन्दरनर्भयोः ।"
इति केशवः । यथोक्तं व्यासपा:-
1
 
"स्वे स्वेऽधिकारे या निष्ठः स गुणः परिकीर्तितः ।
विपर्ययस्तु दोप: स्याङ्कुभयोरेष निश्चयः ॥"
 
इति । न केवलं जनैरेव शिवनापि स्ववर्त्मनि स्थितमित्याह -- पिना-
किनेति । पिनाकिंना शिवेनापि अमोदि हृष्टम् । तत्र हेतुः नाकिनां
मोदकारिणेति । नाकिनां देवानां मोदकारिणा हर्षकत्र । नाकिनां मोदकारित्वं
हि भगवतोऽधिकारः ॥
 

 
इति त्रिपुरदहनव्याख्यायां हृदयम्र हिण्यां
तृतीय आश्वासः ॥
 
शुभम् ।