This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
समाधिदशायामखण्डपरिपूर्णचिद्रूपतया अनुभूयते इत्यर्थः । केचिद् उरु-
चेतनया उर्व्या महत्या चेतनया बुद्धयेति व्याचक्षते । तदयुक्तम् ।
योगिनां समाधिदशायां यद् ज्ञानं तस्य निष्कळविपयत्वात् निष्कळ याः
तस्या अवाङ्मनसगोचरत्वाच्च । चिद्रुपस्या वाङ्मनसगोचरत्वं श्रुत्या किल
प्रतिपाद्यते । उक्तं च भागवते -
 
१२२
 
"नैनं मनो विशति वागुत चक्षुगत्मा
प्राणेन्द्रियाण्यपि यथानलमर्चिषः स्वा: ।"
 
इति । अथ सकळं रूपं परामृशन् तां दिशिनष्टि – ( यदङ्गमिति ।)
(
यस्याः नगतनययाः अङ्गं वपुः महेश्वरः शिवः अङ्कारोहि ।
'वाम कारूढगौरीनिबिडकुचभसभोगगाढोपगूढम् '
 
इत्याद्युक्तदृष्ट्य वामाङ्कारोहणशीलपि व्यधित कृतवान् ॥ ५९ ॥
अथ सा तेन सम्भोगसुन्वमनुत्रभूवेत्याह्
 
विपिनं कैलामालङ्कारि विशन्ती सकेत कैलासालम् ।
मदनरिपुं सा माद्यनियमगजोपय पुसामाद्यम् ॥ ६० ॥
विपिनमिति । या समनन्तरमेवोपदशित रू रूप सा अगजा
पार्वती, मदनरिपुं शिवं, निर्दयं निर्गता दया यथा भवति तथा उप-
गृह्य अतिगाढमालिप्य, उपगूहनोपलक्षतां रति प्राप्य अमाद् ।
आनन्दितवती । मदनरिपुं विशिष्ट पुंसाति । पुमां ब्रह्मादीनाम्,
आद्यम् आदौ भवम् । ब्रह्मादिकीटपर्यन्तानां जीवानां कारणभूतमित्यर्थः ।
अनेनाहा धन्यता भगवत्या : या तादृश भगवन्तमुपगूढवती इति ध्वन्यते ।
अगजां विशिनष्टि -- सकेनकैलासाल केतकैरेलाभिः लताविशेषैः सालैः
वृक्षविशेषैः तदुपलक्षितैरन्यैरुद्दीपन भूतैर्मल्लिका जातिशेफालिंका चम्पकाशोकादिभिश्च
सह वर्तमानम् । अत एव कैलासालङ्करि कैलासपर्वतालङ्करणशीलं
विपिनं वनं, विशन्ती प्रविशन्तीत्यर्थः ॥ ६० ॥
 
अथ प्रबन्धमुपसंहरति --
 
बबन्धुरेव बन्धुरे स्ववर्त्मनि स्थितिं जनाः ।
पिनाकिनापि नाकिनाममोदि मोदकारिणा ॥ ६१ ॥