This page has not been fully proofread.

तृतीय आश्रासः ।
 
स हि तपनानलसोमस्फुरिताक्षित्रितयचुम्बनानलसोमः ।
कुर्वन्नस्तत्रासौ लोकाववस त्रिलोचनस्तत्रासौ ॥ ५८ ॥
 
१२१
 
स हीति । सः कृतत्रिपुरदाहोऽसौ स्वाबासं प्राप्तः, त्रिलोचनः
शिवः, तत्र तस्मिन्नो कसि। अवमद्धि । हिशब्दः ऐतिहासिक प्रसिद्धि
द्योतयति । कर्तव्यान्तराभाव तू तत्रपिवान् । त्रिलोचन विशिनष्टि - कुवे-
निति । लोकौ भूमिस्वर्गो, अन्तत्रासौ त्रिपुरवधानष्टभयौ, कुर्वन् । इतर-
लोकानामुभयत्रान्तर्भावदेवमुक्तम् । तपनेति । तपन आदित्यः अनलो-
ऽभिः सोमश्चन्द्रः तैः स्वरूपभूतैः स्फुरितं यदक्षणां त्रितयं तस्य चुम्बने
अनलसा अमन्दा उमा पार्वती यस्य स तथाः । कृतकृत्यस्य कामा-
धिकारित्वात् स्त्रीणां वीरकामित्वाच्च तंदानीं तयोः कामे प्रवृत्तिरुपपन्नैव ॥ ५८ ॥
 
अथ,
 
"शिव शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेइेवं देवो न खलु कुशलः स्पन्दितुमपि ।"
"परब्रह्मण पापणे परस्पर विरोधिनि ।
 
बिना विमर्शमीशस्य सद्भवो व्योमनी द्रमा (!) ॥"
 
इत्याद्यभियुक्तोक्त्या शक्तिमन्तरेण शक्तिमतः स्वरूपलाभस्याप्यभावात् पर-
शक्य त्मिकायाः पार्वत्याः स्वरूपं परामृत --
 
यहरोकारो हि व्यधित यदङ्गं महेश्वरोऽङ्कारोहि ।
योगिभिरुरुचेतनया या गननीया नगस्थ रुरुचे तनया ॥ ५९ ॥
 
यद्वपुरिति । नगस्य हिमवद्भिः, तनया पार्वती, रुरुचे भगवता
संयुक्ता दीप्यते स्म । निष्कळरूपं परामृशन् तां विशिनष्टि - यद्धपुरिति ।
यस्या नगतनयायाः वपुः शरीरम्, ओङ्कारः निखिलवेदसारः प्रणवो हि ।
हिशब्दः शास्त्रीयां प्रसिद्धिंद्यतयति । तथा या योगिभिः सनका-
दिभिः, उरुचेवनया उर्व्या महत्या सर्वव्याप्तथा चेतनया चिद्रूपतया,
गमनीया ज्ञातव्या । उरुचेतनयेति प्रकृत्यादित्वात् तृतीया । योगिभिः