This page has not been fully proofread.

तृतीय आश्वासः ।
 
शिवः तं शरं, तम्याम् आसुर्याम् असुरसम्बन्धियां,
पुर्यां मुमोच विसृष्टवान् । पुरीष्ट - सुरा इति । यां पुरीं,
सुरा देवा: नदारयामासुः न विदारितवन्तः सामर्थ्याभावात् । तादृश्याः
तस्या विदाणे मगवतोऽन्यः कः शक्नुयादिति भावः । शरं विशिनष्टि
चपुरिति । यस्य शरस्य वपुः स्वरूपं परमपुंसा विष्णुना करणेन
रचित निर्मितम् अत एव सारचितं नारेण स्थिरांशन चितं व्याप्तम् अत
एवं स्तरिपुं त्रस्ता भीता रिपत्र यस्मात् स तथा ॥ ५४॥
 

 
>
 
अथ प्रस्तुतं कार्य निर्वृत्तमामादित्याह-
,
 
कृतदानवतापतति क्षुरेऽत्र दहनेन मूर्च्छनवता पतति ।
सासारर पुर्या ते पुरतः परीनसाररिपुर्या ॥ ५५ ॥
कृतेति । अत्र भगवता मुक्तेऽस्मिन् क्षु शरे, मूर्च्छनवता
वृद्धियुक्तेन, दहनेनामिना सकृतदानवतापति कृता दानबेषु तापानां
ततिस्समूहो यथः भवति तथा पतति पुरत्रयं प्राप्नुवति सति तया
पुर्या पुरत्रयेण पुरतो भगवद ग्रे, साट्टम् अट्टो गृहविशेषः तेन सह वर्तमान
यथा मवति तथा च सारारे अररीभिः क्वाटैः तदुपलक्षितैरनुक्तै-
स्वयवैश्च सह वर्तमानं यथा भवति तथा च, पते भस्मीभूय भूमौ
पतितम् । पुरी विशिनष्टिया पुरी परीतमारापुः
परीतः परितः प्राप्तः सारो बलं येस्त तथा परीतसारा चलवन्तो रेपवो
जगद्वैरिणोऽसुरा यस्य : सा तथा । देवे प्रतिकूले पुरुषकारेण किञ्चिदपि
नोपक्रियते इति भावः ।
 
इति,
 
मा
 
"अट्टा नातिशय घाते क्षौनसंज्ञगृहान्तरे ।
शुष्करफुटेिनभूभागे त्रिषु पक्कौदने तु न्प् ॥"
 
--
 
"अथ पुंसि स्यादररः सोमसंज्ञके ।
यज्ञाङ्गेऽग्नौ च युद्धे च लोहलोहशलाकयोः ।
अपि क्लीयं कवाटे तु स्यात् स्त्री शण्डेडररी इति ॥
आरायामर स्त्रयेव शीघ्र स्याद् भेद्यलिङ्गकम् ।"