This page has not been fully proofread.

११८
 
सव्याख्ये त्रिपुरदहने
 
-
 
अल्पार्थे कः । लीयन्ते नश्यन्तीति (यद्) यस्मात् । यद्यप्येवं तथापि अस्म-
दनुग्रहार्थ शरमोक्षः कार्य इति शेषः । उक्तं च लैङ्गपुराणे -
"सोमश्च भगवान् विष्णुः काला निर्वायुवे च ।
शरे व्यवस्थिताः सर्वे देवमूचुः प्रणम्य तम् ॥
दग्धमप्यथ देवेश ! वीक्षणेन पुरत्रयम्
अस्मद्धितार्थ देवेश ! शरं मोक्तुमिहार्हसि ॥ "
 
इति ॥ ५२ ॥
 
अथ द्वाभ्यां श्लोकाभ्यां शिवों देवप्रार्थनां सफलीचकारे त्याह-
इत्थं सुवाचारं नतमृपिमञ्च वीक्ष्य सुग्दाचारम् ।
उत्थितमधियागारि प्रभुणा रोषार्चिरुत्तमधियागारि ॥ ५३ ॥
 
इत्थमिति । प्रभुणा शिंदेन, इत्थम् अनेन प्रकारण, सुग्वाचा सुराणां
वाचा वचनेन हेतुना, अरमत्यर्थ, नतं प्रीभूतमृषिसंघं वीक्ष्य च नतस्य
ऋषिसङ्घस्य बीक्षणाच्च घेतोरधियागारि । विभक्त्यर्थेऽव्ययीभावः । यागारयो-
ऽसुराः तेषु मूर्चिछतं वृद्धि प्राप्त रोपः चिः कोपा ग्निज्वाला, अगारि
निगीर्णम्। ननु क्त्वाप्रत्ययस्य वाच्योऽर्थो भाव एवं । अव्ययकृतो भावार्थत्वाद्।
द्योत्यार्थस्तु पूर्वकाल एव । तत् कुतस्त्येयं हेत्वर्थता । उच्यते-
क्त्वाप्रत्ययान्तस्य यत् क्वचिद्धेत्वर्थत्वं दृश्यते तन्न पदार्थ । अपि तु
वाक्यार्थसामर्थ्यादायातमेव । ऋषिस विशिनष्टि - सुम्बेति । शोभनो
रवः स्तुतिरूपः शब्दश्चाचारोऽज्ञ्जलिबन्धनमस्कारादिरूपो व्यापारश्च यस्य स
तथा । प्रभुं विशिनष्टि-- उचमधियेति । उत्तमा शुद्धसत्त्वमयत्वा-
दुत्कृष्टा धीर्बुद्धिर्यस्य स तथा । तादृशोऽसौ कथं न प्रसीदतीति
 
-
 
भावः ॥ ५३ ॥
 
त्रस्तरिषु सारचितं शरं वपुर्यस्य परमपुंसा रचितम् ।
त पुर्यामासुर्यां स मुमोच सुरा न दारयामासुर्याम् ॥ ५४ ॥
 
१. मूर्च्छितमिति व्याख्यानुसारी पाठ: