This page has not been fully proofread.

तृतीय आश्वासः ।
 
अकृतेति । तद्नु अस्त्रज्वलनानन्तरं, जनो देवर्ष्यादिः, गिरो
वचनानि, अकृत कृतवान् । भगवन्तमुक्तवा नित्यर्थः । गिर एव दर्शयति -
हे हर निरस्तदनुज ! निगृहांतसुर ! । दनुजनिरास एव ते करणीयः,
अतिप्रसङ्गो न कार्य इत्यभिप्रायेणैव सम्बोधनं कृतम् । ते तवा तिरकोपेते
अतिरेक आधिक्यं तेनोपेते सहिते, अत एव गुरुतरे सोढुमशक्ये,
कोपे शरसङ्क्रन्ते कोपौ जगद् ( भस्मीभवतीय) भस्मीभवदिव बर्तते ।
तन्नः अस्मान्, पाहि त्रायख । किं कृत्वा रक्षणीया यूयमित्यत्राह - त्यजेति ।
रोषमसुरजनितं क्रोधं, त्यज संहर । रोपत्यजनमेचा स्मद्रक्षेति भावः ॥ ५० ॥
 
शिखिनिकरोपम! मुञ्च श्रीकण्ठ । त्रिपुर एव रोपममुं च ।
जगदाय । स्यत्यन्तं तद्न्यथा चंदतश्च यास्यत्यन्तम् ॥ ५१ ॥
 
शिखीति । हे शिखिनिकरोपम ! कोपेनोप्मायमाणत्वाद झिप्रकर
तुल्य ! हे श्रीकण्ठ ! नीलकण्ठ । अमुं जगद्धस्मरार्चिमलाशालिनं, रोपं च
तृतीय नेत्र निवत् शरमपि, त्रिपुर एव मुञ्च, न जगति । अमेोचने दोषमाह -
तदन्यथा चेदिति । तस्मात् शरमोचनादन्यथा अन्येन प्रकारेण यदि ।
क्रियते इति शेषः । अतश्च एतस्माच्छर देव (जगत् ) अन्तं यास्यति प्राप्स्यति ।
जगद्विशिनष्टि - आयासोति । अत्यन्तमायासि शरानलज्वालालीढप्रायत्वात्
क्लशयुक्तम् ॥ ५१ ॥
 
-
 
प्रीतिमुयोध्य क्रोधमपनेतु भगवतो महत्त्वमाविष्कुर्वन्नाह --
 
रणभूमिषु चापादि ग्राह्यं यद्वस्तुजातमिषुचापादि ।
सर्व केळीयं ते पुरो यदेकरफुलिङ्गके लीयन्ते ॥ ५२ ॥
 
रणभूमिष्विति । रणभूमिषु ग्राह्यं गृहीतुं योग्यम् षुचापादि
सर्व वस्तुजातं पदार्थसमूह आपादि उत्पादितं यद् इयं ते तव,
कळी क्रांडव । चशब्द: पादपूरणार्थः । कुत एतदवगतमित्याह – पुर
इति । पुर: पुराणि, एक स्फुलिङ्ग के एकस्मिन्नेव स्फुलिङ्गे अल्पेऽमिकण ।
 
-
 
P