This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
तेनेति । एवकारोऽन्ययोगव्यवच्छेदपरः । तेन पुरं प्राप्तेन, शिखिना
अभिनैव तु शरेण, पुरां त्रयी दत्तपरिभवसमस्तारि दत्तः परिभवो येषां
तादृशाः समस्ता निखिला अरयो यथा भवन्ति तथा समस्तारि सञ्छादिता ।
असुरैरनिवार्यप्रसरोऽग्निस्सर्वतो व्याप्तवानित्यर्थः । प्रादीपि च दहनज्वाला-
मालाकुलाभूदित्यर्थः । शिखिनं विशिनष्टि - साकमिति । साकं सह, पतता।
तिसृष्वपि पूर्षु युगपत् संसृजतेत्यर्थः । सा पुरत्रयी अस्फुटच्च दशमानसन्धि.
बन्धा सती स्फुटितवती । कीदृशी । कम्फ्तता कम्पेन व्याप्ता । स्वस्थानच्युत-
निस्विलावयवेत्यर्थः ॥ ४८ ॥
 
नयनामिनैव पुरत्रये दह्यमाने पूर्वमेव शरे सङ्क्रान्तः कोपाग्निः
सार्थक्रियाविषयः भवन् जगद् गोचरीकर्तुं प्राक्रमतेत्याह
 
-
 
शत्रुषु दाहं तेषु श्रयत्सु *रोषेण वै तदा हन्तेषुः ।
सागरिवनोदधि कबलीकर्तुं जगदर्चिरातनोद धिकवली ॥ ४९ ॥
 
शत्रुध्विति । वैशब्दोऽवधारणे । अत्र रोषशब्देन कारणे कार्यो-
पचारात् रोषकार्यभूतो नयनाग्निः प्रतिपाद्यते । यस्मिन् काले पुरत्रयी दह्य-
मानाभूत् तदा तस्मिन् काले, इषुः सङ्क्रान्तभगवत्कोपो धनुषि संहितश्शरः,
रोषेण वै रोषकार्यभूतेन तृतीयनयनामिनैव तेषु प्रकृतेषु शत्रुषु दाई भस्मी-
भावं, श्रयत्सु प्राप्नुवत्सु सगिरिवनोदधि गिरिभि पर्वतैः वनैररण्यैरुदधि-
भिः समुद्रैः तदुपलक्षितः पदार्थान्तरैश्च सहितं, जगत् कवळीकर्तुम र्चिः
ज्वालाम् आतनोत् अकरोत् । प्रसारया मासेत्यर्थः । हस्त । विषादे हन्तशब्दः ।
महत् कष्टमापतितमित्यर्थः । कीदृशः अधिकली अत्यन्तं बलवान् केनाप्य-
निवार्यप्रसर इत्यर्थः ॥ ४९ ॥
 
अथ त्रिभिः श्लोकैः तद्दहनसम्भ्रान्ता देवर्यादयः तत्पशमनाय प्रावर्त्तन्ते-
त्याह
 
अकृत गिरस्तदनु जनस्त्यज रोषं पाहि हर निरस्तदनुज नः ।
जगदतिरेकोपेते भस्मी भवतीव गुरुतरे कोपे ते ॥ ५० ॥
 
'रोषेण स च तदा' इति मूलकौशपाठः.
 
a