This page has not been fully proofread.

तृतीय आश्वासः ।
 
११५
 
युगगनेति । स शिवः, पुरोऽये, त्रिपुरस्थायि पुरत्रयस्थितिशीलं, बलं
सैन्यं, प्रेक्ष्य प्रेक्षणाद्धेतोः, रुषं क्रोधम् अगच्छत् प्राप्तवान् । बलं विशिनष्टि -
द्युगगनभूतलयानादिति । द्यौः स्वर्गः, गगननाकाशं, भूतलं भूलोकः, एषु यानात्
पर्यटनाद्धेतोः, समदभूतलयानां सर्वजन्तुनाशानां, निमित्तभूतं हेतुभूतम् ।
एतद् रोषे हेतुः । तथा नृतुरगच्छन्त्रि नराः पुरुषाः । पदातय इति यावत् ।
तुरंगा अश्वाः, छत्रं श्वेतातपत्रम् । उपलक्षणमेतत् परिच्छदान्तरस्य ।
किञ्चिदप्यवयववैकल्यमप्र [तमित्यर्थः ॥ ४६ ॥
 
अथ साधनान्तरोत्पत्तिमा ह
 
अथ संरम्भान्विततस्तृतीयनयनाग्निरम्बरं भान् विततः ।
प्रविवेश तदा हरतः पुरमाप च तत्कर्ण रिशतदाहरतः ॥ ४७ ॥
 
अथति । अथ गेषोत्पश्यनन्तरम् । यस्मिन् काले रोष उदपद्यत, तदा
तस्मिन् काले, संम्भान्विततः संम्भः क्रोधः तेनान्वितात युक्तात्, हरतः
हरात्, तृतीय नयनाग्निः तृतीयनयने ललाटलोचने योऽग्निः, सोऽम्बरं आकाश,
प्रविवेश प्रविष्टवान् । कुपितस्य भगवतो नयनामिरुद्गच्छदित्यर्थः ।
कीदृशः । भान् जाज्वल्यमानः, विततः विस्तृतः । चतुर्दशभुवनान्यपी धनी-
कर्तुं पर्याप्त इत्यर्थः । स च त्रिपुरसंहाररायोपक्रान्तवानित्याह – पुरमिति ।
तत्कणः तस्याः कणः लेश: स्फुलिङ्गः । एकत्वं विवक्षितम् । एक-
स्फुलिङ्ग के लीयन्त' इति वक्ष्यमाणत्वात् । पुरमाप प्राप । पुरत्रयं तेन संस्पृष्ट-
मभूदित्यर्थः । पुराणां त्रित्वेऽपि संयोगसमये एकीभावेन प्रतिभासमानत्वात्
पुरमित्येकवचनान्ततया निर्दिष्टम् । कणं विशिनष्टि - अरीते। अरीणां
-
शतस्यानेकस्य दाहे भस्मीकरणे रतस्तत्परः ॥ ४७ ॥
 
-
 
स च भगवन्मनोरथं पूरितवा नित्याह
 
तेनैव समस्तारि प्रादीपि च दत्तपरिभवसमस्तारि ।
शिखिना साकं पतता त्रयी पुरामस्फुटच्च सा कम्पतता ॥ ४८ ॥
 
---