This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
-
 

 
सुचिरमिति । असौ आकृष्टचापो, नाथ: स्वामी शिवः, आ पूर्योगात्
पुरत्रय संयोगावधि, धृतधनु: आकृष्टशरासनस्सन्, सुचिरं बहुतिथं कालम्, ३६
पुरत्रयसंयोग (स्थापने अतः ? स्थाने अस्थात् ) पुरत्रय संयोगं प्रतीक्षमाणः स्थितवान् ।
नाथं विशिनष्टि - कुर्वन्निति । सुगन् सझसावस्थान् कुर्वन् सहासा हास-
संयुक्ता अवस्था अवस्थानं येषां ते तथा । हर्षयुक्तान् कुर्वत्यर्थः । प्रतिपाल्य-
मानकालविशेषो वर्तमानतामगमदित्याह- तत इति । ततो भगवत्स्थानानन्तरं,
द्विषद्भिः शत्रुभिः आपूर्य: ब्रह्मसकाशाद्वरत्वेन प्रार्थितया स्वैनियमितया
सङ्ख्यया पूरणीयः स काल: अब्ददशशतावध्यन्त इत्युक्तलक्षणः समयो-
डगात् आगतवान् ॥ ४४ ॥
 
११४
 
अथ शरं मुमुक्षोभगवतः शरव्यं पुरस्थितमभूदित्याह --
 
-
 
तदनु कृताशावलयस्थितयः सहसः जितामृताशावलयः ।
सङ्गतिमापुर्योद्धा यत्रायं तत्र समाहेमा पुर्योऽवा ॥ ४५ ॥
 
तदन्विति । तदनु संयोगप्राप्त्यनन्तरं, पुर्य: पुराणि, सहसा झटिति,
अद्धा प्रत्यक्षतः, तत्र सङ्गति संयोगं (ग्र । ? आ) पुः प्राप्तवत्यः । तत्रेत्युक्तं,
कुत्रेत्यत्राह -- यांद्भुति । यत्र यस्मिन् देशे, योद्धा युद्धोद्युक्तोऽयं शिवः। अतिष्ठ-
दिति शेषः शिवं विशिनष्ट- समाहिति । समहिमा महिम्ना महत्त्वेन
सहितः । भगवन्महत्त्वेनैवामी भस्म भविष्यन्ति रथ ग्रुपकरण जातं तु वृथैवो-
दितमिति भावः । पुर्विशिष्टकृतति । कृतः आशावलये दिङमण्डले
स्थितिर्याभिस्त स्तथा । काम मत्वात् सर्वदिक्षु कृतपर्यटना इत्यर्थः । तथा
जितामृताशावलय: जिता अभिभूताः अमृताश'नां देवानामावलिः समूहो
याभिस्ताः तथा । कृतकृत्य । इत्यर्थः ॥ ४५ ॥
 
भगवतः पुरत्रयम्थनाय सम्पादितसाधनव्यतिरेकेण नाधनान्तरमासीदिति
वक्तुं पीठिकां प्रतिष्ठापयति
 
युगगनभूतलयानान्निमित्तभूतं समस्तभूतलयानाम् ।
स रुषमगच्छत्रिपुरस्थायि बलं प्रेक्ष्य नृतुरगच्छत्रि पुरः ॥ ४६ ॥