This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
जयत्यर्थो नमस्कारमाक्षिपति । अत्र विभोर्वपुषे नम इत्यर्थो लभ्यते । ततश्च
'आशीनमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्युक्तलक्षणकाव्यमुखाङ्गभूता
नमस्क्रियाभिनिर्व्यूढा भवतीत्यनुसन्धेयम् ॥ १ ॥
 

 
अथ श्लोकद्वयेनोत्कर्षमुपपदयति-
येन च कालोडलोपि स्मरं च निजघान योऽम्बिकालोलोऽपि ।
योऽस्थाद् विषमास्वाद्य स्वस्थः सुरततिषु जात विषमास्वाद्यः ॥ २ ॥
 
येनेति । चशब्दो वाक्यार्थसमुच्चयार्थः । येन विभुना कालः अन्तकः
अलोपि विलयं नीतश्च । सर्वेषामपि प्राणहर्तारमन्तकं यः प्राणैर्वियोजितवान्
तस्योत्कर्षः किमुच्यत इति भावः । योऽम्बिकालोलोऽपि अम्बिकायां पार्वत्यां
लोल: सरागोऽपि । अपिशब्दोऽम्बिकालोलत्यस्मरहन्तृत्वयोः परस्परवि रुद्धतां
द्योतयति । स्मरं कामं निजघान च तृतीयनेत्रामिना भस्मसादकरोत् । यः
सुरततिषु देवसमूहेषु जानविषमासु सतीषु जातम् अमृतमथनसमयसञ्जातं जग-
द्भस्मीकरणोन्मुखं कालकूटमालोक्य उद्भूत विषमं वैषम्यं व्याकुलता यासां
तथोक्ता: ( तासु ) । विषं गरलं आस्वाद्य सुरततिवैषम्यजिहीर्षया पीत्वा । स्वस्थः
विषपानजनितविक्रियामप्राप्तस्सन् अस्थात् स्थितवांश्च । चशब्दोऽत्रानुषञ्जनीयः ।
ननु कोऽयमनुषङ्गो नाम । उच्यते - पूर्ववाक्ये चरितार्थस्य वाक्यस्य उत्तर-
वाक्येऽमिसम्बन्धोऽनुषङ्गः । विभुं विशिनष्टि- आद्य इति । आदौ भवः आद्यः ।
'दिगादिभ्यो यत्' (पा० सू० ४. १. ३३. ) इति यत्प्रत्ययः । जगत्कारण-
भूतस्य किं नाम दुष्करमिति भावः ॥ २ ॥
 
कुलिशं चक्रमुरुरसिः स्थेयसि नृभुजो न यस्य चक्रतुरुरसि ।
सदहन विधुतो ये नद्युधगत्ममरुन्मयेन विधुतो येन ॥ ३ ॥
 

 
कुलिश मिति । चशब्दोऽत्राप्यनुषञ्जनीयः । यस्य नृभुज इत्यनु-
वादात् तच्छब्दवाच्योऽपि नृभुगिति विज्ञायते । नॄन् नरान् भुङ्क्त इति नृभुक्,
राक्षसः । स चात्रोपपत्तिवशाद् गवणः । येन विभुना । स नृभुग् रावणो
विधुतश्च कम्पितोऽभूत् । भुजकण्डूविनोदनाय कैलासमुद्घृत्योत्क्षिपन् भग-