2024-01-01 06:20:20 by ambuda-bot
This page has not been fully proofread.
तृतीय आश्वासः ।
११३
-
निर्दिष्टं विशेषेऽवस्थापयितुमाह - यस्येति । यस्य बाणाख्यधाम्नः, मरुद्वायुः,
बाजगतः वाजे पत्रे गतः । वाजत्वं गत इत्यर्थ: । फलेऽनलेन्द्र फले मुले
अनलेन्दू अग्नीषोमौ गतौ । अत्र बाजशब्देन समस्तोऽपि गतशब्दोऽर्थसामर्थ्या-
दनुषज्यते । सोऽर्थवशद् द्विवचनान्तश्च भवति । पूर्व विष्णोरेव शररूपत्व-
मुक्तम् । तत्र यदनुक्तं देवतान्तरस्य शरावयवरूपत्वं तदिदानीमावेदितं
भवति । यद् बाणाख्यधाम जगतः आर्तिरुद् वा आर्ति पीडां रुणद्धीति
तथा, विष्ण्वादिरूत्वाद् । वाशब्दः समुच्चये ।
ननु (बाल ? वाज) फलवत्ता योग्यत्वं बाणस्यैव न तु धाम्नः । अत्र बाणस्य
धम्न एव धनुषि सन्धानमुक्तं न तु बाणस्य । धनुषि सन्धानमपि बाण-
स्यैवोपपद्यते न तु धाम्नः । तत् कथमेवमुक्तम् । उच्यते अत्र न कवलस्य
धाम्नो धनुषि संहितत्वम् । ( वाजः किमर्थं चोक्तम् ) । अपितु बाणाख्यतया
विशिष्टस्यैव । विशिष्टस्य तु सर्वमेतदुपपन्नमव ।॥ ४२ ॥
ज्वलदन लोप महस्तस्थिरकृष्टरणद्गुणेन रोपमहस्तः ।
तेन महारिपुपूरे रुष्यति चापं हरेण हारि पुपूरे ॥ ४३ ॥
ज्वलदिति । महारि (पु)पूरे महति वीर्यशौर्यादिनोत्कृष्टेरि (पु) पूरे शत्रु-
समूहे, रुष्पति नारदमुखात् स्ववधोद्यम श्रवणात् क्रुध्यति सति, तेन शरं संहित-
बता, हरेण चापं पुपूरे पूरितम् । आकर्णम कृष्टमित्यर्थः । हरं विशिनष्टि -
ज्वलदिति । ज्वलदनलोपमेन ज्वलता दीप्यमानेनानलेनाग्निना उपमां सादृश्यं
यस्य स तथा । शुद्धसत्त्व मयत्वादतितेजस्वितया च प्रकाशमानेनेत्यर्थः ।
तेन हस्तेन स्थिरं दृढं यथा भवति तथा कृष्ट आकृष्टः अत एव रणन् शब्दाय-
मानो गुणो ज्या येन स तथा । चापं विशिष्टि रोपेत । रोपः शरः ।
* अस्त्री रोप इषुर्द्वयोः इत्यमरः । तस्य मह (सा १ स्तः ) तेजसा, हारि मनो-
हरम् ॥ ४३ ॥
—
सुचिरमिहासावस्थान्नाथः कुर्वन् सुरान् सहासावस्थान् ।
धृतधनुरा पूर्योगात् ततः स कालो द्विषद्भिरापूर्योऽगात् ॥ ४४ ॥
* 'पत्री रोप' इति मुद्रितपाठ:.