This page has not been fully proofread.

११२
 
सव्याख्ये त्रिपुरदहने
 
"शिखण्डस्तु पुमानयम् ।
 
मयूरपिञ्छे स्त्री तु स्यात् शिवायां हि शिवण्ड्यसौ" ।
 
इति केशवः । तस्मात् शिखण्डशब्देनात्र किमभिधीयत इति चिन्त्यम् ।
सुरवरेति । सुरवराणामिन्द्रादीनां हैमेन हेमविकारेण वसंसेन शेखरेण
स्फुरितं शोभितं पदं पादो यस्य स तथा । जगदीश्वराणामीश्वरस्य तस्य
किं नामाशक्यमिति भावः ॥ ४० ॥
 
या हतसुरविप्रभया तथा च मौर्व्या विभावसुरविप्रभया ।
चापमयोजयद मलं जगतां नाथ: सुदुर्जयो जयदमलम् ॥ ४१ ॥
 
येति । जगतां नाथः शिवः, तया मौर्व्या गुणेन, चापमयोजयच
सङ्गमितवान् । मौवीं विशिष्टि - विभावखिति । विभावसुरभिः रविरादित्यः
तयोः प्रभेव प्रभा दीप्तिर्यस्याः सा तथा तथा । कालात्मकत्वेन दिव्यत्वाद्
दुर्निरीक्षयेत्यर्थः । अत एव या मौर्वी, इतसुरविप्रभया हतं निरस्तं सुराणां
विप्राणां च भयं यया सा तथा । साधनगुणे सति साध्यसिद्धिरवश्यंभाविनीति
सुरादीनां भीतिमत्र्यैव निरस्तवतीत्यर्थः । चापं विशिनष्ट- अमलमिति ।
लघुज्याक्षतत्वादयो ये चापदोषाः तद्रहितम् । अत एव अलमत्यर्थ, जय-
दम् अरिपरिभवदम्। शिवं विशिनष्टि (सु) दुर्जय इति । सुतरां जेतुमशक्यः
इति । कर्तुः करणस्य च गुणवत्त्वे का विचिकित्सेति भावः ॥ ४१ ॥
 
-
 
यस्य मरुद्वाजगतः फलेऽनलेन्द्र यदार्तिरुद्वा जगतः ।
सज्ये चापे तदयं समधित बाणाख्यधाम चापेतदयम् ॥ ४२ ॥
 
यस्येति । अयं शिवः, सज्ये आरोपितज्ये, चांप उद् बाणाख्यधाम
बाणाख्यं बाण इत्याख्या संज्ञा यस्य तत्तथा । बाणरूपेण परिणतमित्यर्थः ।
बाणाख्यं यद् घाम विष्ण्वादिरूपं तेजः तद् अपेतदयं अपगता दया करुणा
दैत्येषु यथा भवति तथा समधिन च समाहितवानपि । तदिति सामान्येम