This page has not been fully proofread.

तृतीय अश्वासः ।
 
१११
 
योग इति । यानं रथः, (तत्क्षणेन) येन क्षणेन गमनमुपक्रान्तं तेन क्षणेन
अल्पीयसा कालेन, तं देशम् आगमद् आगतवान् । यानं विशिनष्टि - निरति-
शयेति । अतिशयः निष्क्रान्तो निरतिशय: । 'निरादयः क्रान्ताद्यर्थे पञ्चम्य' (पा०
सू० वा० १ ४.७९) इति समासः । आनन्दस्य निरतिशयावं दुःख संस्पृष्टत्वाद्
नित्यत्वाच्च । निरतिशयश्चासावानन्दश्चेति विशेषणसमासः । लोकोत्तर सुखस्वरूप :
ईशः परमेश्वरो यस्मिन् तत्तथा । यद्वा निरतिशयः आनन्दः देवेषु प्रीतिर्यस्य इति
विग्रहः। तं देशमित्युक्तम्, कोऽसौ देश इत्यत्राह - योग इति । यत्र यस्मिन्
देशे, पुरां पुराणां, तरसा 'सुरसत्तम ! नो निलया गत्या घटना मिथुर्जितमनो-
निलया' इत्युक्तलक्षणेन बेगेन, योगः समागमो, भावी भविष्यति । यत्र
यस्मिन् देशे, सुरसभा देवसमूह, वीतरसा वीतो रसो बीर्य यस्याः सा
तथा । यत्रासुरैर्देवाः पराजिता इत्यर्थः । यद्वः यत्र यासु पूर्षु सुरसभा
वीत्तरसा तासां पुरां संयोग इति वा सम्बन्धः ॥ ३९ ॥
 
-
 
अथ विरिश्चवरात पुराणां संयोगसमय एवं हन्तव्यत्वात् संयोगस्य
क्षणिकत्वःच्च प्रागेव धनुर्ग्रहणमारभ्याकर्षणपर्यन्तमुद्यमं कृत्वा पुरयोग प्रति-
पालयता मया भवितव्यमिति मन्यमानस्य भगवतः प्रवृत्तिं पञ्चभिः श्लोक-
राह । तत्र प्रथमेन धनुर्ग्रहणं, द्वितीयेन गुणारोपणं, तृतीयेन शरसन्धानं,
चतुर्थेनाकर्षण, पञ्चमेन पुरयोगं प्रतीक्ष्यावस्थानं चोच्यते--
अथ विभुरच्छशिखण्डश्रित दिव्यनदी जलस्खलच्छशिखण्डः ।
सुरवरहैमवतंसस्फुरितपदो धनुरुदास हैमवत सः ॥ ४० ॥
 

 
अथेति । अथ पुराणां संयोगस्थानागमनानन्तर, स पुरवधोद्युक्त, विभुः
शिवः, हैमवतं हिमवद्भिरिविकारं, धनुरुदाम उद्धृतवान् । विभुं विशिनष्टि -
अच्छेति । अच्छं निर्मलं शिखण्डमुपपत्तिबलाज्जटाभारं श्रितायाः प्राप्तायाः
दिव्यनद्याः गुरुतरधनुरादानसमये भगवद्वपुषश्चाञ्चल्याच्चल्तिजलाया गङ्गायाः
नले स्वलन् वीचिपरम्पराभिः इतस्ततो विक्षिप्यमाणः शशिखण्डश्चन्द्रकला
यस्य स तथा । शिखण्डशब्द: शिखिपिञ्छशिंखयोरेवाभिधायकः । तत्र
शिखायां स्त्रीलिङ्ग एव ।