This page has not been fully proofread.

११०
 
सव्याख्ये त्रिपुरदहने
 
विघ्नस्य धाम चक्षुश्शक्तिहरत्वलक्षणं तेजः, दीप्तसो मरविघ्नं दीप्तौ मेघाद्या-
वरणाभावात् प्रकाशमानौ सोमरवी चन्द्रादित्यौ हन्ति स्वस्याधिक्याद्
निष्प्र(मू ? भौ) करोतीति तथा । अनेनास्य प्रसादातिशयो द्योत्यये ॥ ३७ ॥
 
अथ तैः प्रस्तुतकार्यनिर्वाहा यो पक्रान्तमित्याह --
 
चलति ससत्वरवेऽधः कृतजलधौ विबुधसदसि सत्वरवेधः ।
यानं बद्धरवादिप्रकरप्रग्रहमारवाहि ॥ ३८ ॥
 
चलतीति । अथ गणेशपूजानन्तरं, विबुधरादसि देवसमूहे, चलति
पुरो गच्छति, हरवाहि शिवबाहकं, यानं रथम्, आद्रवत् वेगेनागच्छत् । विबुध-
सदो विशिनष्टि - ससत्त्वरव इति । सत्त्वं बलं पराक्रमो वा व्यवसायो वा ।
 
-
 
"सत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले ।
पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ।
माहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु ॥
प्राणे च"
 
इति केशवः । रवः सिंहनादः ताभ्यां सह वर्तमाने, अधःकृतजलधौ
अमेयत्वादिक्कृतसमुद्रे । समुद्रतुल्य इत्यर्थः । अत्र ससत्त्वरवत्वादपि
समुद्रतुल्यत्वं विवक्षितम् । समुद्रोऽपि ससत्त्वरो भवति । तत्र सत्त्वानि
जन्तवः । यामं विशिनष्टि - सत्वरेति । सत्वरोऽश्वनियमने त्वरासहितो वेधा
ब्रह्मा यस्मिन् तत्तथा । बद्धरवाहिप्रकरप्रग्रहं बद्धरवाणाम् अश्ववलगनवशास्
खणखणायमानानाम् अहीनां कार्कोटकादि महानागानां प्रकर: समूह एव प्रग्रहा
रश्मयो यस्मिन् तत्तथा ।
अनेन तद्धयानां महानागाः प्रग्रहतां प्राप्ता
इत्यावेदितं भवति ॥ ३८ ॥
 
कां प्राप्यभूमिमुद्दिश्य यानमाद्रवद् इत्याह --
 
योगो भावी तरसा यत्र पुरां यत्र सुरसभा वीतरसा ।
निरतिशयानन्देशं तमागमत्तत्क्षणेन यानं देशम् ॥ ३९ ॥