This page has not been fully proofread.

तृतीय आश्वासः ।
 
१०९
 
गमयति । विघ्नेशं विशिनष्ट - अमेयनिति । अमेयपरम् ॥ ३५ ॥
 
विघ्नेशः देवैरर्पितं भक्ष्यजातं पर्यग्रहीदित्याह ---
 
सोऽपि वली लाजालीरपूपपृथुकैः सहैव लीलाजाली ।
अकुरुत कुक्षौ द्राक्ता या न कुषाकान्विता न कुक्षौद्राक्ताः ॥ ३६ ॥
 
सोऽपीति । सोऽपि विघ्नेशोऽषि, अपूपपृथुकैः सहैव अपूपः पिष्ट-
कृतो भक्ष्यविशेषः पृथुकश्चिपिटाख्यो भक्ष्यविशेषः । 'पृथुको चिपिटा-
भेकौ' इति यादवः । अपूपैः पृथुकैश्च सार्धमेव, ता लाजाली: भ्रष्टाः
व्रीहयो लाजाः तेषामाली: समूहान्, द्राग् झटिति, कुक्षौ उदरे, अकुरुत ।
अपूपादिकमभ्यवहृतवानित्यर्थः । विघ्नशं विशिष्टि - बलीति । बली बलवान् ।
समर्पितपदार्थसार्थाभ्यवहारे शक्त इत्यर्थः । तथा लीलाजाली लीलान
बुभुक्षासूचकानां चेष्टानां जालं समूहः तस्यास्तीति तथा । लाजायैर्विशिनष्टि –
या इति । या लाजालयः, कुषाकान्चिताः कुत्सितेन पकेनान्विताः युक्ताः न
भवन्ति । पाऋस्य कुत्सितत्वमपकत्वादतिपक्वत्व च भवति । याः कुक्षौद्राक्ता:
कुत्सितेन क्षौद्रेण माक्षिकेणाक्त: सिक्ताश्च न भवन्ति । सुपाकान्विताः सु-
क्षौद्राक्ताश्चेत्यर्थः ॥ ३६॥
 
विघ्नेशो देवकार्य प्रत्यानुकुल्य (त्व ! ) म गादित्याह -
 
-
 
निघ्नन् सोऽमरविघ्नं विघ्नो यद्धाम दीप्तोत्ररविघ्नम् ।
स्वपितर मरिपुं जनयन्नचलत् पुग्तो निहन्तुमरिपुञ्जनयम् ॥ ६७ ॥
 
-
 
-
 
निघ्नन्निति । सः अतितेजस्वी, विघ्नः, पुरतः भगवद्रथस्य पुरोभागे,
अचलत् अगच्छत् । किंमर्थमचलादित्यत्राह - निहन्तुमिति । अरिपुञ्जनयम्
अस्य शत्रुवर्गस्य यो नयः स्वपरपक्षानुग्रह निग्रहाघायिव्यापारलक्षणा नीति
तं, निहन्तुम् । असुरान् निश्राहयितुमित्यर्थः । विघ्नं विशिनधि - निघ्नन्निति ।
अमरविघ्नम् अमराणां देवानां यो विघ्नः असुरवधं प्रति तं, निघ्नन् विनाशयन्,
अत एव स्वपितरं शिवम्, अरिपुं अविद्यमानशत्रु, जनयन् कुर्वन्, यद्धाम यस्य