This page has not been fully proofread.

१०८
 
सव्याख्ये त्रिपुरदहने
 
अथ द्वाभ्यां श्लोकाभ्यां गणपति प्रसादयामासुरित्याह-
जय जय भो गजवदन ! श्रेयः कुरु भक्तवर्गभोगजवद नः ।
उन्नतदन्तेशानप्रिय ! भक्ष्यं दयिततम मिदन्तेऽशान ॥ ३४ ॥
 
जयेति । भो गजवदन ! हे करिमुख ! हे भक्तवर्गभोगजवद ! भक्तवर्गस्य
भोगे फलानुभवे यो जवः शीघ्रता तं ददातीति तस्य सम्बोधनं
सथा । भक्तानां झटित्येव फलदैत्यर्थ: । जय जय सर्वोत्कृष्टतया वर्तस्व ।
भक्त्यत्तिशयाद द्विक्तिः । नः अस्माकं श्रेयः कुशलं, कुरु सम्पादयस्व ।
हे उन्नतदन्त ! । दन्तुरत्वं हि गजानां प्रशस्तिहेतुः । हे ईशानप्रिय !
ईशानस्य शिवस्य प्रिय ! स्वपुत्रत्वात् प्रेमास्पन्द ! ते तब, दयिततमम्
अत्यन्तमिष्टं भक्ष्यम् अस्मदाहृतमिवादि द्रव्य मिदं कर्तृ । पुरस्तिष्ठतीति शेषः ।
अशान यथेष्टं भक्षय इति पृथग्वाक्यम् ॥ ३४ ॥
 
जगतां मोदकर ! सदा तुभ्यन्नम इत्यपूपमोदकरसद ! ।
 
जनता विननामेयं विघ्नेशं निपतिता मुवि ननामेयम् ॥ ३५ ॥
 
जगतामिति । सदा सर्वस्मिर काले, जगतां जगद्वा सिनां, मोदकर हर्षो-
त्पादनशील ! तुभ्यं नमः नमस्क्रिया अस्तु इत्येवमुक्त्वा इयं जनता देव-
जनसमूहः, विघ्नेशं गणपति नन विननाम प्रणतवती । द्वयोर्नञोः प्रकृता-
र्थावधारकत्वाद् ननामैवेत्यर्थः । कहिशः -- अपूपमोदकरसद ! अपूपो
मोदकश्च पिष्टकृतो भंक्ष्यविशेषः तयोर्यो रसः पञ्चभूतानां सूक्ष्मांशः तं
ददातीति तथा । देवोपहारे हि निवेद्येषु रसांशमेव देवो गृह्णाति ।
यथाहुः
 
"मलघातुरसाभिधानमेतत् पृथिवी वाहिजलात्मकं जलाधम् ।
उपहारविधानमत्र देवे रस एवाञ्चति पञ्चभूतसूक्ष्मः ॥ "
 
इति । यद्वा अपूपमोदकयोः रसो माधुर्य तददातोति तथा । भुवि निपतिता
भूमौ दण्डवत् पतिता । साष्टाङ्गपातं नमश्चक्र इत्यर्थः । एतच्च मक्त्यतिशयं