This page has not been fully proofread.

१०६
 
सव्याख्ये त्रिपुरदहने
 
प्रापुः । दुस्सहसारं दुस्सहं परैः से दुमशक्यं सारं बलं विहाय त्यक्त्वा,
पेतुश्च पतितवन्तः । धाम विशिनष्टि वेधस इति । वेधसोऽपि जगत्
स्रष्टुः ब्रह्मणोऽपि, मेघां बुद्धिम् अनितेऽप्राप्ते । ब्रह्मणोऽप्यपरिच्छेद्यस्वरूप
इत्यर्थः ॥ २९ ॥
 
अथ सारथैर्व्यापारमाह -
 
स्वकरेऽभीशन न्यस्य प्रोत्थाप्य हयान् हरस्य भीशून्यस्य ।
विद्वान् वेधा रयतः समचोदयदुद्धतिं जबे धारयतः ॥ ३० ॥
 
-
 
स्वकर इति । वेधा ब्रह्मा, रयतो वेगेन, स्वकर निजहस्ते, अभीशून
प्रग्रहान्, न्यस्थ स्थापयित्वा हरस्य हयानखान्, प्रोत्थाप्य तोत्रप्रहारणो-
त्थितान् कृत्वा समचोदयत प्रेरितवान् । वेघसं विशिनष्ठि - विद्वानिति ।
अश्वहृदया दिविद्याविदित्यर्थः । हरं विशिनष्टि – भीशून्यस्येति । भिया
भीत्या शून्यस्याश्वेषु पतितेषु साधनवैकल्याद या भीतिरुत्पद्येत तथा वियुक्त
स्येत्यर्थः । अनेन सामग्रीविरहेऽपि भगवदद्योगस्या प्रतिहतप्रसरता प्रत्याय्यते ।
हयान विशिनष्टि उद्धतिमिति । तत्कालिकं विशेषणमेतत् । जव बर्ग,
उद्धतिम् ऊष्मळतां धारयत: बिभ्राणान् ॥ ३० ॥
 
-
 
अथ द्वाभ्यां श्लोकाभ्यां कर्तव्याकरणात् प्रयाणस्यान्तरा विघात अभू
दित्याह -
 
मुक्त्वा शम्भावयति स्वपूजनं यो जगत्सु शं भावयति ।
 
विघ्नः कोपमतनुत श्रान्ता देवान्ततोऽन्तकोषमतनुतः ॥ ३१ ॥
 
मुक्त्त्रेति । विघ्नो गणपतिः, म्वपूजनं स्वस्यात्मनः पूजनम् अर्चा मुक्त्वा
विहाय, शम्भौ शिवेऽयति गच्छति सनि, कोपमतनुत अकरोत् । विघ्नं
विशिनष्टि -- य इति । यो विघ्नः जगत्सु शं प्रारब्धतात्पर्य परिसमाप्त्या सुख
भावयति उत्पादयति । पूजित इति शषः । अनेनापूजितो दुःखमपि भाव-