This page has not been fully proofread.

तृतीय आश्वासः ।
 
आयाम: प्राणायामः तद्वन्तो योगिनः तैरितं प्राप्तम् इति नियमविशेषणतथा
व्याचक्षते च । अत्रपि यच्छन्दस्य पूर्वत्र क्यगतत्वात् तच्छब्दं प्रति यत्
साकाड़क्षत्वं तन्महान् दोष एव । तस्यापि सोदव्यत्वे अर्थस्याञ्जस्यं
न भवति । अत्र विभक्तिभदः प्रक्रमभङ्गो वा साकाङ्क्षत्वदोषो वा सोढव्य
इति न जानीमः । तत्र सहृदया एक प्रमाणम् ॥ २७ ॥
 
अथ शिथः त्रिपुरवषायोयुक्तवानित्याह-
उद्यति नांदे वाद्यश्रेणीनामथ महामना देवाद्यः ।
त्रिपूरहरी हतदत्यप्रमहो रथमख्यमारुरोह तदैत्य ॥ २८ ॥
 
उद्यतीति । अथ रथादिसामग्री सम्पादनानन्तरं, यस्मिन् काले दवा:
व्रतं समाहितवन्तः तदा तस्मिन् काले, देवाद्यः शिवः त्रिपुरहर पुरत्रय-
संहर्सा भविष्यन् । त्रिपुरं संहर्तमित्यर्थः । प्रत्य स्वावासादागत्य, रथमुख्यं
स्थानां मध्ये मुख्यम् अवन्याधात्मकत्वात प्रधानमारुरोड आरूढवान् । किं
तत्रोपलक्षका मत्यत्राह -- उद्यतीति । बाद्यश्रणीनां बाधानां मेरीपणवादीनां
-
श्रेणीनां वर्गाणां मङ्गला" दवैर्वाद्यमानानां ना ध्वनौ, उद्यति उद्गच्छति
साते । देवाद्यं विशिनाष्ट महामना इति । महदुत्कृष्टं मनो यस्य स
 

 
तथा । सङ्कल्पमात्रेणापि सकलार्थसाधनक्षम इत्यर्थः । हसदत्यप्रमदः हतः
विलयं नीतो दैत्यानां प्रमदो हर्षो येन स तथा । भगवतो रथारोहणसमय
एव देत्यानां हर्षो नष्ट इत्यर्थः ॥ २८ ॥
 
अथ भगवत उत्कर्षातिशयं प्रकट
 
अथ परमे घायनित स्थास्थित बेघसोऽपि मेधामनित ।
प्रविषेदः सहसारं पतुश्च हया विहाय दुःसहसारम् ॥ २९ ॥
 
१०५
 
अथेति । अथ रथारोहणानन्तरमेव परमे सर्वावमासकत्वाद्रकृष्टं (घामनि)
तेजसि च परमेश्वरे, रथस्थिते स्यन्दनस्थिते सनि, ते चतुर्वेदाः, हयाः श्वा
सहसा शटित्थेव, अरम् अत्यर्थ प्रविषेदुः भगवतो गौरव सोदुमशक्नुषाना विषाद