This page has not been fully proofread.

१०२
 
सव्याख्ये त्रिपुरदह
मे
 
तस्येति । त्रिदशा देवाः, अवधायास्माभिः पशुत्वेऽङ्गीकृत एव
अपुरा वध्या भवेयुरिति निश्चित्य पुरवधाय पुरवासिनां निग्रहाय, यतो
गच्छतः, तस्य शिवस्य, पशुभावं पशुत्वमापुः प्राप्तवन्तः । यतो यस्मान
द्धेतोः, अत एतस्माद्धेतोः, प्रभुशिवः पशुपतिरिति विश्रुतेन प्रसिद्धेन,
निजनाम्ना निजेन नित्येन वा आत्मीयेन वा नाम्ना संज्ञया, जनाम्नातो
जनैराम्नातः उक्तः अजनि अभूत् । पशूनां पतित्वादस्य पशुपतिरिति
यौगिक नामाभूदित्यर्थः ।
 
"निजं तु
 
त्रिः सनातने ।
 
आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् ।'
 
इति केशवः ॥ २६ ॥
 
अथोपातपशुत्वानां देवानां दशामाह -
 
समजान तापश्चात्ते पशुत्व उक्ते च भगवता पश्चात्ते ।
योऽतिमहानायामी तं नियमं विदधुरस्य हानायामी ॥ २७ ॥
 
समजनीति । भगवता शिवेन, पशुत्व उक्ते च यूयं पशवो भवत
इत्याज्ञापितेच, आत्ते च देवैः स्वीकृते च सति । चशब्दौ वचनादान्योयोग
पद्यं द्योतयतः । भगवदाज्ञासमकालमव तेषां पशुत्बे जाते इत्यर्थः । तापो
मनस्ताप समजनि समभूत् । देवानामित्यर्थात् । अथ ते पशुत्वनिवर्तक
कर्माकुर्वमित्याह पश्चात् पशुभावन तापोत्पस्यनन्तरं, ते च पशुत्वं प्राप्ताः,
अभी इमे देवाः अस्य पशुत्वस्य हानाथ निवृत्तय, तत्रियमं व्रतं विदधुः
कृतवन्तः । नियमं विशिनष्टि - य इति । यो नियमः, अतिमहान् भक्तिश्रद्धा-
बिहीनस्यापि अनुष्ठानमात्रेण परपुरुषार्थप्रदत्वाद् अत्युत्कृष्टः । तथा य आयामी
आयामो दैर्ध्य स यात्र कालगतो विवक्षितः, तद्वान् अतिदीर्घकालेन समा-
पनीय इत्यर्थः । अतिमहत्त्वमायामित्वं च पाशुपतव्रतस्यैवास्ति । अतः
पाशुपतं व्रतम् अनुष्ठितवन्त इत्युक्तं भवति । यद्यप्यस्य यमक पदेषु प्रक्रान्तस्य
विभक्तिभदस्य भङ्गो भवति तथापि वचनस्य भिन्नत्वादसौ नात्यन्तं दोषाय
भवति । केचित् प्रक्रमभङ्ग परिजिहीर्षया आयामीठमिति पदच्छेदं कुर्वन्ति ।
 
--
 
·