This page has not been fully proofread.

प्रथम आश्वासः ।
 
प्तिहेतवः, स्थूलसूक्ष्मकारणाख्यानि यानि शरीराणि तान्येव त्रीणि पुराणि, जाग्र-
त्स्वप्नसुषुप्तिसाक्षिणो विश्वतैजसप्राज्ञा एव त्रयोऽपुराः, इन्द्रियाण्येव देवताः,
शुद्धसत्त्वमेव स्वर्गः, तुरीय आत्मैव शिवः, विमर्शात्मिका शक्तिरेव पार्वती,
शास्त्रार्थविचारादिकमेव धनुरापकरणानि, तत्त्वज्ञानमेव नयनाग्निः, तत्तत्कार्या-
णां स्वखकारणलयक्रमेण मूलकारणे शिवादिशब्दवाच्ये परस्मिन् वस्तुनि विला-
पनमेव दाह, जगदूपेण परिणता यावशक्तेस्तत्त्वज्ञानेन जगद्पे गलिते शक्तिशक्ति-
मतोरेकीभावेनावस्थानमेव शिवयोरुपगृहनम् इत्यादिकयात्रि मन्त्रप्रबन्धार्थयोरैक्यं
विद्वद्भिरुन्नेयम् । अलमप्रस्तुतवस्तुप्रथनेन । प्रकृतमनुसरामः ।
 
-
 
9
 
ननु धर्मिणि सत्येव धर्मेण भवितव्यं विभोस्सत्त्वमेवा निश्चितं प्रमाणा-
भावाद् इत्याशङ्कय विभुं विशेषन् ईश्वरमाचे प्रमाणमाह -- अभिदधातीति ।
अच्छा निर्मला । अपौरुषत्वेन रागादिमूलत्वाभावात् प्रमाणभूतेत्यर्थः । गौः
वाकू, काण्डत्रयात्मकवेदलक्षणा । यं विभुं । विशिनष्टि । अभिदधाति
धर्मरूपतया देवरूपतया ब्रह्मरूपतयाः च प्रतिपादयति । ईश्वरसद्भावे श्रुतिः
प्रमाणं भवतीत्यर्थः । अभिदधातीत्यस्य यया कयाचिद् वृत्त्या प्रतिपादन एव तात्पर्य
न त्वभिघावृत्त्याभिधाने । तथात्वे हि 'यतो वाचो निवर्तन्ते' 'यो मुक्तैर (व)
गम्यते' 'अतद्वथावृत्त्या यं चकितमभिधत्ते श्रुतिरपी 'त्याद्यभियुक्तोक्तिविरोध: स्यात् ।
"गौर्नादित्ये बलविर्दे ऋतुभेदर्षिभेदयोः ।
 

 
स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि ॥
 
• इत्यमरः
 
नृस्त्रियोः स्वर्गचन्द्राम्बुरश्मिहग्बाणलोमसु ।
अश्वानां प्रग्रहेऽप्येष यत्साधारणनामसु ॥ "
 
इति केशवः । अतिगौरच्छायत्वादेर्देवतान्तरसाधारण्यात् तद्व्यावृत्त्यर्थं भूयोऽपि
विभुं विशिनष्टि - विपकटुकेति । येन विभुना विषकटुका विषेण गरलेन
हेतुना कटुका तीक्ष्णा । अहिश्रेणी अहीनां सर्पाणां श्रेणी समूहः । भूषणमिव
कटककटिसूत्राद्याभरणमिव । स्वकाये स्वस्य आत्मनः काये देहे । अनाहि
बद्धा । 'णइ बन्धन' इत्यस्मात् कर्मणि लुङ् । भगवतः शिवस्येत्यर्थः ।
"रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ।"
 
। उपासकप्रदीभावमन्तरेण उपास्यदेवतोत्कर्षो न सम्बोभवीतति