This page has not been fully proofread.

तृतीय आश्वासः ।
 
वंशे वाद्ये"
 
इति केशवः । वैरिणां शत्रूणां पूरं समूहं तरतः लङ्घयतः ।
निगृह्णानस्येति यावत् । मे मम, पशवः पशुवद् विशसनीया वध्या भवत ।
यथा असुराणां वध्यत्वं भवति तथा युष्माकमपि वध्यत्वं भवत्वित्यर्थः ।
अत्र पूरशब्दस्य शब्दशक्त्या प्रतीयमानं मुख्यार्थभूत जलप्रवाहमाश्रित्य
तरत इत्युक्तम् । अयं भगवतोऽमिप्राय: - यतः स्वयं सकललोकानां
साधारण्येन मङ्गलावहत्वात् शिवो भवति, देवप्रियार्थम् असुराणां वध्यत्व
स्वस्यासाधारण्येन माङ्गलिकत्वमङ्गो जायेत. ततो देवानामपि पशुत्वमुद्भा-
व्यैवासुरा हन्तव्याः । ततश्चोभयेषां पशुत्वनिवर्तनार्था मे प्रवृत्तिः न पक्षपात
दोषमावहति । तत्राघमें प्रवर्तमानानामसुराणां पशुत्वं वधेन निवर्तनीयम् ।
धर्मे प्रवर्तमानानां देवानां पशुत्वं तु पाशुपतत्रतचरणेन इति इयानेव भेदः ।
तस्माद्देवा अपि पशवो भवन्त्विति । तदुक्तं कर्णपर्वणि
 
-
 
किन्स्वधर्मेण वर्तन्ते यस्मात्ते
 
"समा भवन्ति मे सर्वे दानवाश्यामराश्च ते
शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः ॥
सुरशत्रवः ।
तस्माद्वध्या मया ह्यद्य युष्माकं च हितेच्छया ॥
शरणं वः प्रपन्नानां धर्मेण च जिगीषताम् ।
साह्यं रणे करिष्यामि"
 
इति । पुनरपि तत्रैवोक्तम् –
 
"पशुत्वं चैव मे सर्वे लोका: कल्पन्तु पीडिताः ।
पशूनामाधिपत्यं मे भवत्वद्य दिवौकसः ॥
 
एवं न पापं प्राप्स्यामि पशून् हत्वा सुरद्विषः ।"
इति । श्रीलैः संहितायामप्युक्तम् -
 
१०१
 
"अथाह भगवान् रुद्रो देवानालोक्य शङ्करः ।
पशूनामाधिपत्यं मे देवा इन्तु दितेस्सुतान् ॥