This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
अघशतेति । अथ नमस्कारानन्तरं, सुरगणेन देवसमूईन, य
त्प्रत्यक्षीकरणाय देवा नमश्चक्रुः स देवः शिवः, पुरतेोऽग्रभागे, दहशे दृष्टः ।
कीदृशः । अनघो निष्पाप : निखिलँद्वैतातीतत्वात् । अत एवाघशतघस्मर-
हासस्फुरितमुखाम्भोरुहः भक्तजनानां यदघशतं अघानां पापानां शत.
मनेकं तस्य कर्ममूतस्य घस्मरेणादनशीलेन हासेन देवान् प्रति प्रसाद-
चिह्वेन मन्दहासेन स्फुरितं शोभितं मुखाम्भोरुहं पद्ममिव मुखं यस्य स तथा ।
हासस्फुरितत्वं मुखधर्मत्वात् रूपक परिग्रहे बाधकता प्रतिपादयति ।पुर-
तोदे पुरत्रय मर्दनेऽवस्थितधीः निगूढबुद्धिः । मुखप्रसादेन नुमेयमिति भावः ।
स्मरहा स्मरं काम इतवान् इति । ब्रह्मादिमशकान्तैर खिलैरपि प्राणिभिर-
जंय: कामः तस्यापि जेतुः शिवस्य पुरत्रयविजये कियती दुष्करतेति
 
भावः ॥ २२ ॥
 
२००
 
अथ हरः कर्तव्यतःन्तरे देवान् नियुक्तवानित्याह-
मनसा सुरसमुदायं नतमाशानः समीक्ष्य सुरसमुदा यम् ।
अवदत् पूरन्तरतः पशवो मे भवत वैरिपूरं तरतः ॥ २३ ॥
 
--
 
मनसेति । पूरन्तरतः पुररामन्ते नाशे रतः सक्तचित्तो, यं प्रत्यक्षी-
भूतम्, ईशानः शिवः, मनसा हृदयेन, समीक्ष्य सर्वप्राणिसाधारणोऽहं
देवप्रियार्थ कथमसुरान्निगृह्णीयामिति निरूप्य, नतं प्रणतं सुरसमुदायं
देवसमूहम्, अवददुक्तवान्। मनो विशिष्टि - सुरसमुदेति ।
 
सो-
Sतिशयो यस्या सा सुरसा, सुरसा मुद् प्रीतिः यस्य तत्तथा । इवेष्वत्यर्थ
प्रसनेनेत्यर्थः । उक्तिप्रकारं दर्शयति -- यूयं वैरिपूरं पूरशब्दस्य नद्यः
जलवृंहणं मुख्योऽर्थः । स च समूहविशेषः समूहसामान्य लक्षयति ।
मुख्यार्थबाधः स्फुट एव । सामान्यविशेषभावः सम्बन्धः । लक्ष्यार्थम्य
दुर्निवारप्रसरत्वप्रतीतिः प्रयोजनम् ।
 
"अथ पूरो ना नद्याः सलिलबृंहणे ।
पुनर्नवायां नृ स्त्री तु पूर्वो पूरी तु सा स्त्रियाम् ।