2024-01-01 06:20:15 by ambuda-bot
This page has not been fully proofread.
तृतीय आश्वासः ।
रहितम्, ) खलु । प्रसिद्धौ खलुशष्ठदः । अतः परं कः शरस्योत्कर्ष इति भावः ।
नन्षन्येषु विद्यमानेष्वखिलेश्वरं विष्णुं कुतोऽसौ शरत्वेनाकल्पयदिस्यत्राह-
शम्भुकरेति । पुष्कराक्षे विष्ण, असति शरत्वेनाविद्यमाने, के शरत्वेन
कल्पिता:, शम्भुकराक्षेप शम्भो शिवस्या करेण य आक्षेपः पीडनं तं
विषहेरन् । न केऽपि । शम्भुकराक्षेपं सोढुं सर्वेऽप्यसमर्था एव । तत्र
बिष्णुरेव समर्थ इत्यर्थः । तत्र हेतुरपङ्क इति । अपके दोषरहिते ॥ २० ॥
अथ देवाः किं कृतवन्त इत्यत्राह-
तस्यैव धन्यस्य त्वष्टृकृतस्यायुधप्रबन्धं न्यस्य ।
नमनमधुर्धूरन्ते रथस्य विबुधा विकीर्य धुरं ते ॥ २१ ॥
तस्येति । ते निर्मापितयुद्धोपकरणाः, विबुधाः देवा:, आयुध
प्रबन्धं आयुधानां धनुरादीनां प्रबन्धं परम्परां, न्यस्य रथे स्थापयित्वा,
एबमुक्तप्रकारेण त्वष्ट्रकृतस्य विश्वकर्मनिर्मितस्य धन्यस्यावन्यादेरुपाडान-
स्वादुत्कृष्टस्य तस्य शिवारोहणक्षमतया निर्माविश्वस्य रथस्य, धूरन्ते
धुरः यानमुखाख्यो रथाघयवविशेषस्तस्य अन्ते समीपे । रथपुरोभाग इति
यावत् । घुघूरमुन्मत्ताख्यं पुष्पविशेष, विकीर्य विक्षिप्य, नमनं नम
स्कारें, अधुः कृतवन्तः । रुद्रायेति शेषः । ननु व्यापूर्वत्वा भावे कथं
दधाते: करणार्थत्वम् । उच्यते-
धारणवत् करणमपि दघातेरेवार्थ: । उपसर्गास्तु धातुलीनमर्थ द्योतयन्त्येव
न तु धात्वर्थात् पृथक् कश्चिदर्थमभिदषति । न चात्र द्योतकाभावे
कथं द्योत्यार्थप्रतीतिरिति वाच्यम्, उपपत्तिवशादेव तत्प्रतीतेः ।
'धू: स्त्री क्लीबे यानमुख स्याद्रथाङ्गमपस्कर; ।'
इत्यमरः ।
ततः किमासीदित्यत्राह -
अघशत घस्मरह। सस्फुरितमुखाम्भोरुहोऽनघः स्मरहा सः ।
दहशे पुरतोदेऽवस्थितधरिथ सुरगणेन पुरतो देवः ॥ २२ ॥