This page has not been fully proofread.

९८
 
सव्याख्ये त्रिपुरदहने
 
अभिमतः नीचानां दुष्टानामपायो नाशो यस्य स तथा । न केवलं देवाज्ञैवास्य
रथादिनिर्माण प्रयोजिका अपि तु सुरपीडायाः स्वनाभ्यनुभूयमानत्वात् स्वेच्छापि
प्रयाजिकेति भावः । ननु भुजङ्गराजो हि भगवद्धनुषो ज्यात्वमुपगतवानिति
केचित् कथयन्ति । उक्तं च लैङ्गे-
'शैलेन्द्रं कार्मुकं चक्रे ज्या भुजङ्गाधिपः खयम् ।'
 
इति । नत्कथमत्र संवत्सरस्य ज्यात्वमुक्तम् । उच्यते - संवत्सर-
स्यापि च्यात्वमस्त्येव । तदपि लैङ्ग एवोक्तम्-
'काळरात्र्या तथैवेह तथेन्द्रधनुषा पुनः ।'
इति । तत्र काळरात्रिरिति रात्र्यंश उच्यते । तदनुसारेणेदं ज्याकथनम् ॥ १८ ॥
 
जगदहितोदग्राहकृतिकृत्यै पद्मजं प्रतोदग्राहम् ।
तोत्रं समतनुतारं तस्यैव तर्टिद्गुणेन समतनुतारम् ॥ १९ ॥
 
त्वष्टा
 
जगदिति । अत्र प्रकृतत्वात् त्वष्टेति कर्ता सिध्यति
जगदहितोद ग्राहकृतिकृत्यै जगतो लोकस्य, येऽहिता: शत्रवः असुराः
तेषां उदमाया जगत्पीडा हेतुत्वात क्रूराया: अहङ्कतर्गर्वस्य कृत्यै छेद-
नाय । असुरवधायेति यावत् । पद्मजं ब्रह्माणं, प्रतोद ग्राइं समतनुत अक
रोत् । प्रतोदं तोत्रं गृह्णातीति प्रतोदप्राहः । ब्रह्माणं सारथि कल्पित-
वानित्यर्थः । तस्यैव पद्मजस्यैव । एवकारः पौनर्वचनिकः । तारं प्रणवम्,
तोत्रं प्रतोदं, समतनुत । च शब्दोऽर्थाक्षिप्तो वेदितव्यः । तोत्रस्थाने
प्रणवं कल्पितवानित्यर्थः । कीदृशं तारम् । अरमत्यर्थ, तटिद्गुणेन विद्युद्दामा,
समतनु तुल्याकारं वेदसारत्वेनोज्ज्वलरूपत्वात् ॥ १९ ॥
 
परमं धामानन्तं यः खल्वकरोच्छवं त्रिधामानं तम् ।
शम्भुकराक्षप के विषहेर सति पुष्कर क्षेऽपङ्के ॥ २० ॥
 
परममिति । स तं त्रिधामानं विष्णुं शरमिषुमकरोत् । त्रिधामानं
विशिनष्टि --- परममिति । यः त्रिधामा परमं विश्वाभासकानां सूर्यादीनाम-
प्याभासकत्वादुत्कृष्टं धाम परब्रह्मादिशब्दाभिषेयं तेजः, (अनन्तम् अन्त-
9