This page has not been fully proofread.

द्वितीय आश्वासः ।
 
वेदानिति । सोऽयं देवनियोगाद् स्थादिरचनामारभमाणः त्वष्टा,
योगिजनस्य योगश्चित्तवृत्तिनिरोधः लढतो जनस्य, न्यायं नीतिम् आलम्ब्य
तावदाश्रित्यैव । तावच्छन्दोऽवधारणे । चतुरः चतुस्संख्याकान्, वेदान् ऋग्यजु-
स्सामाथर्वलक्षणान्, अश्वान् हयान्, चक्रे कृतवान् । वेदानश्वतया परिण-
मितबानित्यर्थः । शशिभास्करी चन्द्रादित्यौ, चक्रे रथाङ्गे । चक्रे इत्य
नुषज्यते । अवन्या भूम्या, रथं स्यन्दनम्, अकृत । रथत्वे भूमिं कल्पित-
वानित्यर्थः । कीदृशः । चतुर: विदग्धः । तस्य किं न शक्यमिति भावः ।
यथा अणिमादिसिद्धि मन्तो योगिनः सङ्कल्पमात्रेणाभिमतं साधयन्ति तथा
स्वष्ट्रपि सङ्कल्पमात्रेणैव वेदादिभिरश्वादिकं निरमायीत्यर्थः ॥ १७ ॥
 
स ज्ञानी चापाय स्मृतवा नद्रीन्द्र मिष्टनीचापायः ।
 
अकृत तदासज्या या स्थाने संवत्सरं तदा स ज्यायाः ॥ १८ ॥
 
"
 
स इति । (स) त्वष्टा चापाय चापं कर्तुम् अद्रीन्द्रं हिमवन्तं, स्मृतवान् ।
कीदृशः । ज्ञानी सारासारवस्तुपरिज्ञानी । स तदा तस्मिन्काले, मा तदासज्या
सस्मिन् धनुषि आसज्या संसर्गयोग्या लस्या ज्याया मौर्व्याः, स्थानेऽवकाशे,
संवत्सरम हो।त्राभ्याम् अवयवोपेतं कालम्, अकृत कृतवान् । सवत्सरात्मकं
कालं गुणत्वेन कल्पितवानित्यर्थः ।
 
"स्थानं क्लीबे नरेऽप्यन्ये प्राहुर्गेहावकाशयोः ।
सम्बन्धभेदे जन्तूनां स्यान्निवृत्तिप्रसङ्गयोः ॥
अपकर्षे च सादृश्ये क्लीचं तु स्थितिकर्मणि ।
एकारान्तं पुनः केचित् स्थाने इत्यव्ययं विदुः !
युक्तार्थे कारणार्थे च तन्नेह ब्रूमहे वयम् ।
शब्दावस्थाय स्थाने ना भुवि ॥"
 
इति केशवः । अत्र राज्या त्र्यंशात्मको हि संवत्सरः (१) । तत्र राज्यंश
ज्यात्वेन कल्पित वानित्यवगन्तव्यम् । कीदृशः । इष्टनीचापायः इष्टः