This page has not been fully proofread.

९६
 
सव्याख्ये त्रिपुरदहने
 
देवाः स्थनिर्माण स्वष्टारं नियुक्तवन्त इत्याह -
 
द्विषतां तोदे शम्भो रतस्य तेषां यियासतो देशं भोः ।
कुरु रथमस्य त्वष्टः श्रेष्ठ काष्ठाश्च कृच्छ्रमस्यत्वष्ट ॥ १५ ॥
 
,
 
द्विषतामिति । भो त्वष्टः ! विश्वकर्मन् अस्य प्रकृतस्य, शम्भोः सुव
कारणस्य, रथं स्यन्दनं, कुरु सम्पादय । कीदृशस्य । द्विषतां जगदपकारिणाम्
असुराणां, तांदे वधे, रतस्य अभिनिविष्टबुद्धेः अत एव तेषां द्विषतां, देश
पुरत्रयसमागमस्थानं, पियासतः गन्तुमिच्छतः । कीदृशं रथम् । श्रेष्ठमुत्कृष्ठम् ।
शम्भोरारोहणक्षममित्यर्थः । एतत्तु न केवलमस्मदुपकारकमपि तु सर्वेषामप्यु -
पकारकमित्याहुः --- काष्ठा इति । कृच्छ्रे दुःखं कर्तृभूतम् अष्ट काष्ठाः अष्ट-
संख्याका दिशः अस्यतु त्यजतु । स्थादिकरणस्यासुरवधोपायभूतत्वेन
निखिलस्यापि दुःखस्य निवर्तकत्वादिति भावः ॥ १५ ॥
 
त्वष्टा च देवनियोगमङ्गी चक:रेत्याह-
इति भासुरया च नतः शिल्पिक्रियया जगत्सु सुरयाचनतः ।
रणभूमिप्वासाद्यं यद्वस्त्व करोत् स सर्वमिष्वासाद्यम् ॥ १६ ॥
 
"
 
इतीति । इति उक्तप्रकारेण सुरयाचनतः सुराणां याचनात् प्रार्थना-
द्धेतोः । देवनियोगादिति यावत् । (सःत्वष्टा ) यद् रणभूमिषु युद्धप्रदेशेषु,
आसाद्यं प्राप्यं वस्तु इष्वासाद्यं धनुरादिकं तत् सर्वमकरोत् उत्पादितवान् ।
त्वष्टारं विशिष्टि मासुरेति । भासुरया शोभनशीलग, शिल्पिक्रियया
शिल्पिनां तक्ष्णां क्रियया कौशलेन, नतः शिल्प्यन्तरेण प्रणतः । शिल्पक्रिययेति
वा पाठः । लोकोत्तरवस्तुरचनाचतु/येत्यर्थः ॥ १६ ॥
 
-
 
अथ चतुर्भिः श्लोकः त्वष्टा स्थादिरचनायां लोकविलक्षणं वस्तूपादत्त-
वानित्याह ---
 
वेदांश्चक्रे चतुरः सोऽश्वान् शशिभास्करौ च चक्रे चतुरः ।
रथमकतावान्यायं योगिजनस्यावलम्ब्य तावन्न्यायम् ॥ १७ ॥