This page has not been fully proofread.

तृतीय आश्वासः ।
 
जगतामिति । हे देवाः! जगतां लोकानां पाता रक्षिता शिवः,
त्रिपुरवासिपाताय त्रिपुरवासिनां तारकाक्षादीनां पाताय, प्रसादनं प्रसादं, यातः ।
त्रिपुरवासिनोऽसुराहं वधिप्यामांति प्रतिज्ञातवानित्यर्थः । अतं एत.
स्मात् प्रसादप्राप्तेर्हेतोः तस्य जगत्पातु वाहे अश्वे, धनुषि चापे, शरे
इषौ, च उद्यमं उद्योगं, कुरुत । वाहधनुश्शरादीनां साधारण विशेषण-
माह - अमन्द इति । अमन्दे अनल्पे ॥ १२ ॥
 
"9
 
९५
 
सम्पादितसाधनानामस्माकं यत्नमन्तरेणान्यत् किश्चित् न फलति इसि
न शङ्कनीयमित्याह -
 
सत्सु शरासज्येषुप्रभृतिषु करणेषु हरकरासज्येषु ।
दानवराजानीतः स्वक्लेशो नष्ट इति सुरा! जानीत ॥ १३ ॥
 
सरस्वति । हे सुरा: देवा: हरकर।सज्येषु हरकरग्रहणये ग्येषु,
शरासज्येपुप्रभृतिषु शरासो धनुः ज्या गुणः, इषुः शरः तत्प्रभृतिषु तदाद्येषु,
करणेषु युद्धोपकरणेषु सत्सु भवत्सु, दानवराजानीतः दानवराजस्तारक'क्ष'-
दिभिरानंतः, आसादितः । सम्पादित एवेत्यर्थः । स्वक्केशः खषां देवानां
युष्माकं लश पीडा, नष्टः अदर्शनं कृतमिति जानीत बुध्यध्वम् ॥ १३ ॥
 
अथ देवाः किं कृतवन्त इस्यत्राह-
इति ते शैलादिवचः श्रुत्वा शोकाद् व्यपेत्य शैलादिव च ।
त्वष्टुः सदनं तरसा ययुस्तिरोगे भवे च सदनन्तरसाः ॥ १४ ॥
 
इती ते । ते देवाः, (शिचॆभवे ) रुद्रे, तिगेगे तिरोधानं गते, इति उक्त-
प्रकारेण शैलादिवचः शिलादस्यापत्यं शैलादिः नन्दीश्वरः तस्य वचः श्रुत्वा
अत एव शैलादिव स्थिरत्वमहत्त्वादिना पर्वतसदृशात्, शोकात् अपुरपीडाहेतोः
शुचः, व्यपेत्य अपेता भूत्वा, च तरसा वेगेन, त्वण्टुर्देवशिल्पिनो विश्वकर्मणः,
सदनं भवनं, ययुः गतवन्तश्च । कीदृशाः । सदनन्तरसा : सद् विशिष्टः
अनन्तो निरवसानो रसः सुखं येषां ते तथा ॥ १.४ ॥