This page has not been fully proofread.

९४
 
सव्याख्ये त्रिपुरदहने
 
सह गेहं स्वकं देवाः पुरद्वार्येव संस्थिताः ।
ते च संखिन्नमनसः प्रोचुरन्योन्यमातुराः ॥
वयं भाग्यविहीनास्ते भाग्यवन्तः सुसरयः ।
तैरेव पूजितो देवो नास्माभिर्यन्न दृश्यते ॥
एवं प्रलपतां तेषां श्रुत्वा शब्दाननेकशः ।
कुण्डोदरो महातेजा दण्डेनाताडयत् सुरान् ॥
दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ।
ततः कपर्दी नन्दीशो देवदेवाज्ञया तदा ॥
वृषमारुह्य सुश्वेतं ययौ देवजनान्तिकम् ।
नन्दीशं तु ततो देवास्तुष्टुवुर्हष्ट चेतसः ॥
नमस्ते रुद्रभक्ताय रौद्रजप्रताय 1
रुद्रभक्कार्तिनाशाय रुद्रकर्मरताय ते ॥
 

 
एवं तैरीडितो नन्दी कुण्डोदरमवाश्यत् ।
अथ देवानुवाच ।"
 
इत्यादि । अथ नमस्कारानन्तरं, नन्दी प्रमथाभ्रणीः नन्दीश्वरः, पुरुषोचम-
रुद्रा जस्कन्द । दित्याश्विमारुतमरुद्राजः पुरुषोत्तमो विष्णुः, रुद्रा एकादश,
अजो ब्रम, स्कन्दः षण्मुखः, द्वादशादित्याः, अश्विनौ द्वौ. मारुतो
बायुः, मरुतो देवाः तेषु राजतीति मरुद्राडिन्द्रः, एतान् वाचो वचनानि
प्रोवाच । कीडशः, रहसि हरस्य शिवस्य पार्श्वे स्थितवान् । शिक्स्यात्यन्तबल्लभ
इत्यर्थः । अत एव दीप्रः दीपनशीलः । नन्दिनो वचनमपि भगवद्वचनवद्
माननीयमेवेति भावः ॥ ११ ॥
 
द्वाभ्यां श्लोकाभ्यामुक्तिप्रकारमाह-
जगतां पाता यातः प्रसादनं त्रिपुरवासिपातायातः ।
तस्यामन्दे वाहे धनुषि शरे कुरुत चोद्यमं देवा हे! ॥ १२ ॥