This page has not been fully proofread.

सव्याख्ये त्रिपुरदहने
 
"अथ छायानातपशोभयोः ।
सूर्यपत्न्यन्तरे स्थात् पङ्क्तिप्रतिबिम्बयोः ॥"
 

 
इति च । ननु गौरशब्दस्य शक्ल एवार्थः प्रसिद्धः । अरुणार्थस्त्व-
प्रसिद्ध एव। प्रसिद्ध प्रसिद्धयोः प्रसिद्धस्य मुख्यत्वम् । मुख्यामुग्ख्ययो-
मुख्यमेवाझीकरणीयम् । शुद्धसत्वगये भगवति शौक्ल्यमुपपन्नं च । तत्कथ-
मेवं व्याख्यातम् । उच्यते - विवक्षाधीना हि शब्दप्रवृत्तिः । विवक्षा चात्र
कवेर रुग्य एव; शाक्षरीमन्त्राच्यस्य भगवतः परामर्शनीयत्वेनेष्टत्वात् ।
तदिष्टत्वं च 'योऽग्विकालोलोऽपी' ति सम्बन्धोपक्रमे, 'सोमस्य महासेन' इति,
प्रमेयोपक्रमे च 'मदनरिपुं सामान्यं निर्देयमगजोपगृह्यपुंसा मान्यमिति, उपसंहारे
च 'येन भगवतोमा रोपि' 'योऽम्बिकालीनमतिः' 'अङ्कार्धन्यस्तनगप्रियतनया
कुङ्कुमाईधन्यस्तनग' 'वेष्टितरोमावल्याइयमधुपत्रातमन्थगेमावल्याः' 'अन्त-
विदेवमनुविद्धोम' 'रुद्रं नमश्चकारोमांच' इत्यादि मध्ये च तत्र भगवत्या
 
उपादानातू,
 
"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपती चलिङ्ग तात्पर्यनिर्णये ॥ "
 
.
 
इति न्यायेन सशक्तिके भगवति तात्पर्यादवसीयते । नन्वेवमपि शक्ति-
पञ्चाक्षरी मन्त्रवाच्यस्य परामृश्यत्वं कुतो निश्चितं, अष्टाक्षरीमन्त्रवाच्योऽपि
भगवान् शक्तिको रक्तवर्णश्च तस्य पररामृश्यत्वं कथं न स्यात् । (उच्यते)
यथा महाकविर्माघः श्रीमहोपाल कविंशत्यक्षरमन्त्रमूलतया
 
"श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शवितरन्तमम्बरा द्धिरण्यगर्भाङ्गमुवं मुनि हरिः ॥"
 
इत्युपक्रम एवं तस्य मन्त्रस्य ऋषि नारदं ब्रह्माणं देवतां कृष्णं च
परामृश्य मन्त्राक्षरसङ्ख्या नियमितविंशतिसतं शिशुपालवधायं काव्यं प्रणि
नाय, तथानेनापि कविना शक्तिपञ्चाक्षरी मन्त्रमूलतया वपुरतिगौरच्छाय-
मित्यादिमपद्य एव मन्त्रदेवतां परामृश्य तन्मन्त्रावयवपद सङ्ख्या यमिताम्वासत्रयो -
पेतत्वेनास्य प्रबन्धस्य प्रणीतत्वात् । किञ्च सत्वरजस्तमोमयानि जाग्रत्खप्नसुषु-