This page has been fully proofread twice.

नगर्यां बभ्राम । किंवदन्तीशुश्रूषया च संनिविष्टा विशिष्टजनगोष्ठीर्जगाहे । राजव्यापारकथाप्रक्रमे च पौराणामाशयपरीक्षार्थमवनीपतेरमात्यस्य तदधिकृतानां च यथासंभवं परिकल्प्य दोषानुदकीर्तयत् । तैश्च प्रशान्तनिखिलोपद्रवतया सर्वदा सुखितैः स्वामि-
सचिवाध्यक्षमिथ्यापरिवादश्रवणबद्धामर्षैरप्रत्यभिज्ञानदोषेण परुषा-
क्षरमधिक्षिष्यमाणः परां मुदमुवाह ॥
 
"

 
सचिवलोकोऽपि, श्रुतत्वाद्धर्मशास्त्राणाम् अकर्कशत्वादाश-
यस्य, परिज्ञातत्वाच्च प्रभुचित्तवृत्ते:तेः, परिहरन्प्रजाखेदम्, अखिला-
न्यपि राजकार्याणि चक्रे ॥
 
एवं च राज्ञः परित्यक्तसकलभुवनचिन्ताभारस्य अनन्तभोग-
लालितमूर्तेरतर्कित एव भूयान् जगाम काल:लः । भूयसा च
कालेन, यत्किल लोके प्रसिद्धं महीभुजामपि योग्यम्, अखिलमपि
तत्प्रायेण जीवलोकसुखमनुबभूव । केवलमात्मजाङ्गपरिष्वङ्ग निर्वृति
तिं नाध्यगच्छत् । समग्राण्यपि कारणानि न प्राग्जन्मजनितकर्मो-
दयक्षणनिरपेक्षाणि फलमुपजनयन्ति । यतोऽस्य नूतनेऽपि
वयसि, महत्यष्प्यन्तः पुरे, बहुनापि कालेन नैकोऽप्युदपादि तनयः ॥
 
क्रमादतिक्रामति च यौवने, जरठतालिह्यमानवपुषस्त रोरिव
त्रुटति कुसुमेषुरसे, पल्लवस्येवाविर्भवति वैराग्ये, अपत्यमुखदर्शनं
प्रति निराशस्य, 'राजन्, अध्वरस्वाध्यायविधानादानृण्यं गतोऽसि
 
[commentary]
 
एवं चेति । कर्मोदयः कर्मफलं कर्मपरिपाको वा । उदपादि उत्पन्नः ।
'चिण् ते पदः' इति कर्तरि लुङि चिण् ।
 
क्रमादिति । कुसुमेषुः मन्मथः । पक्षे कुसुमेष्विति भिन्नं पदम् । जर
ठतेति विशेषणं पल्लवेऽप्यन्वेति । वैराग्यं वितृष्णता रक्तिमाभावश्च
 
T 2