This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
नगर्यो बायां बभ्राम । किंवदन्तीशुश्रूषया च संनिविष्टा विशिष्टजनगो-
ष्ठीर्जाजगाहे । राजव्यापारकथा प्रक्रमे च पौराणामाशयपरीक्षार्थम-
वनीपतेरमात्यस्य तदधिकृतानां च यथासंभवं परिकल्प्य दोषानु-
दकीर्तयत् । तैश्च प्रशान्तनिखिलोपद्रवतया सर्वदा सुखितैः स्वामि-

सचिवाध्यक्षमिथ्यापरिवादश्रवणबद्धामर्षैरप्रत्यभिज्ञानदोषेण परुषा-

भरमधिक्षिष्यमाणः परां मुदमुवाह ॥
 

 
"
 

 
सचिवलोकोऽपि, श्रुतत्वाद्धर्मशास्त्राणाम् अकर्कशत्वादाश-

यस्य, परिज्ञातत्वाच प्रभुचित्तवृत्ते:, परिहरन्प्रजाखेदम, अखिला-

न्यपि राजकार्याणि चक्रे ॥
 

 
एवं च राज्ञः परित्यक्तसकलभुवनचिन्ताभारस्य अनन्तभोग-

लालितमूर्तेरतर्कित एव भूयान् जगाम काल: । भूयसा च

कालेन, यत्किल लोके प्रसिद्धं महीभुजामपि योग्यम्, अखिलमपि

तत्प्रायेण जीवलोकसुखमनुबभूव । केवलमात्मजाङ्गपरिष्वङ्ग निर्वृति

नाध्यगच्छत् । समग्राण्यपि कारणानि न प्राग्जन्मजनितकर्मो-

दयक्षणनिरपेक्षाणि फलमुपजनयन्ति । यतोऽस्य नूतनेऽपि

वयसि, महत्यष्यन्तः पुरे, बहुनापि कालेन नैकोऽप्युदपादि तनयः ॥
 

 
क्रमादतिक्रामति च यौवने, जरठतालिह्यमानवपुषस्त रोरिव

त्रुटति कुसुमेषुरसे, पल्लवस्येवाविर्भवति वैराग्ये, अपत्यमुखदर्शनं

प्रति निराशस्य, 'राजन, अध्वरस्वाध्यायविधानादानृण्यं गतोऽसि
 

 
एवं चेति । कर्मोदयः कर्मफलं कर्मपरिपाको वा । उदपादि उत्पन्नः ।

'चिण् ते पदः' इति कर्तरि लुङि चिण् ।
 

 
क्रमादिति । कुसुमेषुः मन्मथः । पक्षे कुसुमेष्विति भिन्नं पदम् । जर

ठतेति विशेषणं पल्लवेऽप्यन्वेति । वैराग्यं वितृष्णता रक्तिमाभावश्च
 

 
T 2