2024-01-17 05:34:30 by Bharadwajraki
This page has been fully proofread twice.
समारोपितस्वनामवर्णश्रेणीकानारोप्य दिशामष्टानामपि पर्यन्तेषु जयस्तम्भान्, उपार्जितप्रभूतकोशं वशीकृतसमस्तसामन्तं समग्रमपि राज्यम् आजन्मनः प्ररूढपरमसौहृदस्य हृदयस्येवातिविश्वमनीयस्य प्रज्ञावतां धौरेयस्य विदितनिःशेषनीतिशास्त्र संहतेरमात्यवर्गस्यायत्तमकरोत् । आत्मनापि निःशेषितारिवंशतया विगतशङ्कः,
स्वधर्मव्यवस्थापितवर्णाश्रमतया जातनिर्वृतिः, नवयौवनेनोपदर्शितेष्विन्द्रियग्रामहारिषु विषयेषु परिभोगलालसं मानसमासञ्जयामास ।
तदा च यदुचितं यौवनस्य, रुचितं चित्तवृत्तेः, अबाधकं लोकद्वयस्य -- अविकलतया विवेकस्य, स्थिरतया कुलाभिमानस्य, स्वभ्यस्ततया विनयस्य, यथा न धर्मः सीदति, यथा नार्थः क्षयं व्रजति, यथा न राजलक्ष्मीरुन्मनायते, यथा न कीतिर्मन्दायते, यथा न प्रतापो निर्वाति, यथा न गुणाः श्यामायन्ते, यथा न श्रुतमुपहस्यते, यथा न परिजनो विरज्यते, यथा न मित्रवर्गो ग्लायति, यथा न
शत्रवस्तरलायन्ते तथा -- तदपरमपि सर्वमन्वतिष्ठत ॥
सेवकानुरागस्य संरक्षणाय च वितर्णसर्वावसरमन्तरान्तरा सभामण्डपमध्यास्त । धर्मपक्षपातितया च देवद्विजातितपस्विजनकार्येषु महत्सु कार्यासनं भेजे । पौरलोकपरितोषहेतोश्च वसन्तादिषु सविशेषप्रवृत्तोत्सवां निर्गत्य नगरीमपश्यत् । निसर्गत एवास्य पूर्वपार्थिवातिशायिनी प्रजासु पक्षपातस्य परवशा वृत्तिरासीत् । यतः -- स तथा प्रसक्तोऽपि विषयोपभोगसुखेषु, जानन्नपि जागरूकताममात्यानाम्, तासां प्रजानां सुस्थासुस्थोपलम्भाय केनाप्यनुपलक्ष्यमाणविग्रहः स्वयमेव निर्गत्य निशामुखेषु प्रतिगृहं