This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
समारोपितस्वनामवर्णश्रेणीकानारोप्य दिशामष्टानामपि पर्यन्तेषु
जयस्तम्भान्, उपार्जितप्रभूतकोशं वशीकृतसमस्तसामन्तं समग्र-
मपि राज्यम् आजन्मन:नः प्ररूढपरमसौहृदस्य हृदयस्येवातिविश्व-
मनीयस्य प्रज्ञावतां धौरेयस्य विदितनि:निःशेषनीतिशास्त्र संह तेरमात्य-
वर्गस्यायत्तमकरोत् । आत्मनापि निःशेषितारिवंशतया विगतशङ्कः,

स्वधर्मव्यवस्थापितवर्णाश्रमतया जातनिर्वृतिः, नवयौवनेनोपदर्शिते-
ष्विन्द्रियग्रामहारिषु विषयेषु परिभोगलालसं मानसमास ञ्जयामास ।
 

 
तदा च यदुचितं यौवनस्य, रुचितं चित्तवृत्तेः, अबाधकं
लोकद्वयस्य -- अविकलतया विवेकस्य, स्थिरतया कुलाभिमानख,
स्य, स्वभ्यस्ततया विनयस्य, यथा न धर्मः सीदति, यथा नार्थः क्षयं
व्रजति, यथा न राजलक्ष्मीरुन्मनायते, यथा न कीतिर्मन्दायते, यथा
न प्रतापो निर्वाति, यथा न गुणाः श्यामायन्ते, यथा न श्रुतमुपहस्यते,
यथा न परिजनो विरज्यते, यथा न मित्रवर्गो ग्लायति, यथा न

शत्रवस्तरलायन्ते तथा -- तदपरमपि सर्वमन्वतिष्ठत
-----
 
,
 

 
सेवकानुरागस्य संरक्षणाय च वितर्णिसर्वावसरमन्तरान्तरा
सभामण्डपमध्यास्त । धर्मपक्षपातितया च देवद्विजातितपस्विजन-
कार्येषु महत्सु कार्यासनं भेजे । पौरलोकपरितोषहेतोश्च वसन्ता-
दिषु सविशेषप्रवृत्तोत्सवां निर्गत्य नगरीमपश्यत् । निसर्गत एवास्
पूर्वपार्थिवातिशायिनी प्रजासु पक्षपातस्य परवशा वृत्तिरासीत् ।
यतः -- स तथा प्रसक्तोऽपि विषयोपभोगसुखेषु, जानन्नपि जागरू-
कताममात्यानाम्, तासां प्रजानां सुस्थासुस्थोपलम्भाय केना-
प्यनुपलक्ष्यमाणविग्रहः स्वयमेव निर्गत्य निशामुखेषु प्रतिगृहं