2024-01-17 05:13:06 by Bharadwajraki
This page has been fully proofread twice.
शितमतिर्गुरूणां कोपेन मुमुदे, न प्रसादेन ; सकलाधर्मनिर्मूलनाभिलाषी कलेरवतारस्योदकण्ठत ; न कृतयुगस्य ॥
यस्य च प्रताप एव वसुधामसाधयत्, परिकर एव सैन्यनायकाः ; आकारं एव प्रभुतां शशंस, परिच्छदश्छत्रचामरग्राहाः ; धार्मिकतैव दुरितानि प्रतिचकार, प्रपञ्चः पुरोधसः ; प्रज्ञैव मन्त्रान्निश्चिकाय, शोभा मन्त्रिणः ; त्याग एव दिक्षु कीर्तिमगमयत्, विभवो वन्दिपुत्राः ॥
यस्मिंश्च राजन्यनुवर्तितशास्त्रमार्गे प्रशासति वसुमतीम्, इक्षूणां पीडनम्, पदानां विग्रहः, कुकविकाव्येषु यतिभ्रंशदर्शनम्, वैशेषिकमते द्रव्यस्य प्राधान्यं गुणानामुपसर्जनभावो बभूव ॥
यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैर्ध्रुवः ।
बौद्धतर्क इवार्थानां नाशो राज्ञां निरन्वयः ॥
दृष्ट्वा वैरस्य वैरस्यमुज्झितास्त्रो रिपुव्रजः ।
यस्मिन्विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥
स राजा बाल एवाधिगतराज्याभिषेकः सकलभुवनाभिभाविना भुजबलेन निर्जित्य सप्ताम्बुराशिरशनाकलापां काश्यपीम्,
[commentary]
यस्मिन्निति । विग्रहः विग्रहवाक्यम्, कलहश्च । यतिभ्रंशः संन्यासिनः स्वधर्माच्च्युतिः, यतेः छन्दःशास्त्रोक्तस्य नियतस्थानविरामस्य भ्रंशश्च । द्रव्यं धनम्, पृथिव्यादि च । गुणाः सौशील्यादिगुणाः, पारिभाषिका रूपरसादयश्च ।
यस्येति । हेतिहेतुशब्दयोः सप्तम्यां 'हेतौ' इति रूपम् । दोष्णि बौद्धतर्के इव स्फुरद्धेतावित्यन्वयः । प्रतीये ज्ञातः । निरन्वयः निर्वंशः, पक्षे निःसंबन्धः निःशेष इति यावत् ।
दृष्ट्वेति । विश्वस्य विश्वासं कृत्वा । विश्वस्य समस्तस्य ।