This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
शितमतिर्गुरूणां कोपेन मुमुदे, न प्रसादेन ; सकलाधर्मनिर्मूलनाभि-
लाषी कलेरवतारस्योदकण्ठत ; न कृतयुगस्य ॥
 

 
यस्य च प्रताप एव वसुधा मसाधयत्, परिकर एव सैन्य-
नायका:काः ; आकारंवं प्रभुतां शशंस, परिच्छदश्छत्रचामरग्राहा:हाः ;
धार्मिकतैव दुरितानि प्रतिचकार, प्रपञ्च :चः पुरोधस:सः ; प्रज्ञैव मन्त्रा-
न्निश्चिकाय, शोभा मन्त्रिण:णः ; त्याग एव दिक्षु कीर्तिमगमयत,
त्, विभवो वन्दिपुत्राः ॥
 

 
यस्मिंश्च राजन्यनुवर्तितशास्त्रमार्गे प्रशासति वसुमतीम्,
इक्षूणां पीडनम्, पदानां विग्रहः, कुकविकाव्येषु यतिभ्रंशदर्श-
नम
नम्, वैशेषिकमते द्रव्यस्य प्राधान्यं गुणानामुपसर्जनभावो बभूव ॥

 
यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैर्ध्रुवः ।

बौद्धतर्क इवार्थानां नाशो राज्ञां निरन्वयः ॥

 
दृष्ट्वा वैरस्य वैरस्य मुज्झितास्त्रो रिपुव्रजः ।

यस्मिन्विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥
 

 
स राजा बाल एवाधिगतराज्याभिषेक:कः सकलभुवनाभि-
भाविना भुजबलेन निर्जित्य सप्ताम्बुराशिरशनाकलापां काश्यपीम्,
 

 
[commentary]
 
यस्मिन्निति । विग्रहः विग्रहवाक्यम्, कलहश्च । यतिभ्रंशः संन्यासिन:
नः स्वधर्माच्च्युतिः, यतेः छन्दःशास्त्रोक्तस्य नियतस्थान विरामस्य अंभ्रंशश्च । द्रव्यं
नम्, पृथिव्यादि च । गुणा:णाः सौशील्यादिगुणाः, पारिभाषिका रूपरसादयश्च ।
 
>
 
>
 

 

 

 
यस्येति । हेतिहेतुशब्दयोः सप्तम्यां 'हेतौ' इति रूपम् । दोष्णि बौद्ध-
तर्के इव स्फुरद्धेतावित्यन्वयः । प्रतीये ज्ञातः । निरन्वयः निर्वेवंशः, पक्षे निःसंबन्धः
निःशेष इति यावत् ।
 

 
दृष्टुट्वेति । विश्वस्य विश्वासं कृत्वा । विश्वस्य समस्तस्य ।