This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
शितमतिर्गुरूणां कोपेन मुमुदे, न प्रसादेन; सकलाधर्मनिर्मूलनाभि-
लाषी कलेरवतारस्योदकण्ठत; न कृतयुगस्य ॥
 
यस्य च प्रताप एव वसुधा मसाधयत्, परिकर एव सैन्य-
नायका: ; आकार एवं प्रभुतां शशंस, परिच्छदश्छत्रचामरग्राहा: ;
धार्मिकतैव दुरितानि प्रतिचकार, प्रपञ्च : पुरोधस: ; प्रज्ञैव मन्त्रा-
निश्चिकाय, शोभा मन्त्रिण: ; त्याग एव दिक्षु कीर्तिमगमयत,
विभवो वन्दिपुत्राः ॥
 
यस्मिंश्च राजन्यनुवर्तितशास्त्रमार्गे प्रशासति वसुमतीम्,
इक्षूणां पीडनम्, पदानां विग्रहः, कुकविकाव्येषु यतिभ्रंशदर्श-
नम, वैशेषिकमते द्रव्यस्य प्राधान्यं गुणानामुपसर्जनभावो बभूव ॥
यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैध्रुवः ।
बौद्धतर्क इवार्थानां नाशो राज्ञां निरन्वयः ॥
दृष्ट्वा वैरस्य वैरस्य मुज्झितास्त्रो रिपुव्रजः ।
यस्मिन्विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥
 
स राजा बाल एवाधिगतराज्याभिषेक: सकलभुवनाभि-
भाविना भुजबलेन निर्जित्य सप्ताम्बुराशिरशनाकलापां काश्यपीम्,
 
यस्मिन्निति । विग्रहः विग्रहवाक्यम् कलहश्च । यतिभ्रंशः संन्यासिन:
स्वधर्माच्च्युतिः, यतेः छन्दःशास्त्रोक्तस्य नियतस्थान विरामस्य अंशश्च । द्रव्यं
वनम् पृथिव्यादि च । गुणा: सौशील्यादिगुणाः, पारिभाषिका रूपरसादयश्च ।
 
>
 
>
 

 

 
यस्येति । हेतिहेतुशब्दयोः सप्तम्यां 'हेतौ' इति रूपम् । दोष्णि बौद्ध-
तर्के इव स्फुरद्धेतावित्यन्वयः । प्रतीये ज्ञातः । निरन्वयः निर्वेशः, पक्षे निःसंबन्धः
निःशेष इति यावत् ।
 
दृष्टुति । विश्वस्य विश्वासं कृत्वा । विश्वस्य समस्तस्य ।