This page has been fully proofread twice.

द्याभिर्विदांचकार । कलाः शास्त्रं च निरवशेषं विवेद । विशेषतश्चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप । भुजबलं चास्य विस्मापितसुरासुरं केसरिकिशोरस्येव सहजमभवत् । आरब्धकार्यस्य
त्रिभुवनेऽप्यशक्यं किमपि न प्रायेणाभूत् । एवं च परिणताशेषशास्त्रम्, आसादितसकलास्त्रविद्यान्तरम्, उपलब्धसर्वबुधजनसाधुवादम्, आरूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयवशोभम्, अनुमोदितविद्यं गुरुजनेन हरिवाहनम्, अतिक्रान्ते षोडशे वर्षे हर्षनिर्भरो राजा विसर्जितैराकारणाय सादरमुदाराकारवेषैः प्रधानपुरुषैरनुगम्यमानमतिभूयसा विभवेन स्वभवनमानिनाय । निर्वर्तिताखिलगृहप्रवेशमङ्गलश्चास्य नगरबाह्यायाम् अलघुवप्रालंकृतप्राकारलङ्घिताभ्रम्, अदभ्रतोरणस्तम्भम्, उभयतो निखातशातकुम्भपूर्णकुम्भोद्भासितद्वारदेशम्, अनेकगजतुरङ्गशालाभिरामं कुमारभवनमकारयत् । कर्तुकामश्च यौवराज्याभिषेकम्, तस्य साहायकार्थमाज्ञाभरसहं प्रज्ञया पराक्रमेणाकारेण विनयेन वचनविन्यासेनोद्यमेनापरैश्च त्यागशौर्यगाम्भीर्यादिभिः प्रभुगुणैर्धृतानुकारमुर्वीपतिकुमारमादरप्रेषितैः प्रणिधिपुरुषैरनिशमुर्व्यामन्वियेष ॥