This page has been fully proofread twice.

वस्थापितवर्णाश्रमधर्मः, प्रतिपक्षाणामान्तराणामनन्तराणां च विनेता, प्राप्तदैवपुरुषकारानुगुण्यः, षाड्गुण्यप्रयोगचतुरः, चतसृष्वपि विद्यासु लब्धप्रकर्षः, सर्वलोकानां विशेषज्ञोऽपि समदर्शनः, विशालहृदयासादितस्वेच्छावकाशयेवातिदूरप्रसृतया प्रज्ञया सम्यग्ज्ञातहेयोपादेयविभागः, गगनाभोग इव शशिभास्कराभ्याम् अच्युत इव शङ्खचक्राभ्याम् अम्भसां पतिरिवामृतबाडबाभ्याम् अभिरामभीषणो यशःप्रतापाभ्याम्, इन्दुविमलाभिर्व्याप्तभुवनान्तरालो गुणपरम्पराभिः, उच्चापशब्दः शत्रुसंहारे न वस्तुविचारे, अकृतकारुण्यः करचरणे न शरणे, शत्रुघ्नोऽपि विश्रुतकीर्तिः, अशेषशक्त्युपेतोऽपि सकलभूभारधारणक्षमः, सर्वसागरैरिवोत्पादितगाम्भीर्यः, सर्वमुनिभिरिव निर्मितोपशमः, पृथ्वीमय इव स्थैर्ये, तिग्मांशुमय इव तेजसि, सरस्वतीमय इव वचसि, सुधामय इव माधुर्ये, तपोमय इवासाध्यसाधनेषु, अनर्तितो लक्ष्मीमदविकारैः, अनाकृष्टो विषयग्राहैः सार्वभौमो राजा मेघवाहनो नाम ॥
 
यश्च संगरश्रद्धालुः अहितानामुन्नत्या तुतोष, न प्रणत्या ; दानव्यसनी जनानामर्थितयाप्रीयत, न कृतार्थतया ; कुशाग्रीयबुद्धिः कार्याणां वैषम्येण जहर्ष, न समतया ; विनयचिकीषया
 
[commentary]
 
स्तस्य भूलोकस्यैकस्याधिपतिरिति त्रयोऽप्यनेन प्रकारेण समाना इति भावः । अनन्तराः स्वदेशप्रत्यासन्नाः, सामन्ता इत्यर्थः । उच्चापशब्दः उद्गतचापध्वनिः, उच्चाः अधिकाः अपशब्दाः अपभ्रंशाः यस्य स च । अकृतकारुण्यः अकृतकं स्वाभाविकं आरुण्यं यस्य सः, अकृतं कारुण्यं दया येन स च । विश्रुतकीर्तिः श्रुतकीर्तिरहितः, श्रुतकीर्तिरिति रामसोदरस्य शत्रुघ्नस्य पत्नी । विश्रुता
प्रसिद्धा कीर्तिर्यस्य स च । अशेषा समस्ता । शेषः सर्पराजः ।
 
विनयचिकीषा विनयसंपिपादयिषा । चिनोतेः सनि 'विभाषा चेः' इति कुत्वम् ।