This page has not been fully proofread.


 
तिलकमञ्जरीसंग्रहः ।
 
वस्थापितवर्णाश्रमधर्मः, प्रतिपक्षाणामान्तराणामनन्तरराणां च विनेता,
प्राप्तदैवपुरुषकारानुगुण्यः, षाड्गुण्यप्रयोगचतुरः, चतसृष्वपि वि-
द्यासु लब्धप्रकर्ष:, सर्वलोकानां विशेषज्ञोऽपि समदर्शन:, विशालह-
दयासादित स्वेच्छावकाशयेवातिदूरप्रसृतया प्रज्ञया सम्यग्ज्ञातहेयोपा-
देयविभागः, गगनाभोग इव शशिभास्कराभ्याम् अच्युत इव शङ्खच-
क्राभ्याम् अम्भसां पतिरिवामृतबाडबाभ्याम् अभिरामभीषणो यश:-
प्रतापाभ्याम् इन्दुविमलाभिर्व्याप्तभुवनान्तरालो गुणपरम्पराभिः,
उच्चापशब्द: शत्रुसंहारे न वस्तुविचारे, अकृतकारुण्य : करचरणे न
शरणे, शत्रुघ्नोऽपि विश्रुतकीर्तिः, अशेषशक्त्युपेतोऽपि सकलभूभार-
धारणक्षमः, सर्वसागरैरिवोत्पादितगाम्भीर्यः, सर्वमुनिभिरिव निर्मि-
तोपशमः, पृथ्वीमय इव स्थैर्ये, तिग्मांशुमय इव तेजसि, सरस्वती-
मय इव वचसि, सुधामय इव माधुर्ये, तपोमय इवासाध्यसाधनेषु,
अनर्तितो लक्ष्मीमदविकार :, अनाकृष्टो विषयग्रा है: सार्वभौमो राजा
मेघवाहनो नाम ॥
 
यश्च संगरश्रद्धालुः अहितानामुन्नत्या तुतोष, न प्रण-
त्या; दानव्यसनी जनानामर्थितयाप्रीयत, न कृतार्थतया; कुशाग्री-
यबुद्धिः कार्याणां वैषम्येण जहर्ष, न समतया; विनयचिकीषया
स्तस्य भूलोकस्यैकस्याधिपतिरिति त्रयोऽप्यनेन प्रकारेण समाना इति भावः ।
अनन्तराः स्वदेशप्रत्यासन्नाः, सामन्ता इत्यर्थः । उच्चापशब्द: उद्गतचापध्वनिः,
उच्चा: अधिका: अपशब्दाः अपभ्रंशाः यस्य स च । अकृतकारुण्यः अकृतकं
स्वाभाविकं आरुण्यं यस्य सः, अकृत कारुण्यं दया येन स च । विश्रुतकीर्तिः
श्रुतकीर्तिरहितः, श्रुतकीर्तिरिति रामसोदरस्य शत्रुघ्नस्य पत्नी । विश्रुता
प्रसिद्धा कीर्तिर्यस्य स च । अशेषा समस्ता । शेष: सर्पराजः ।
 
विनयचिकीषा विनयसंपिपादयिषा । चिनोतेः सनि 'विभाषा चेः' इति कुत्वम् ।