This page has been fully proofread twice.

आहरत भगवतीं षष्ठीदेवीम्, निधत्त पर्यन्तेषु शयनस्य सद्योऽभिमन्त्रितां रक्षाभूतिरेखाम्' इत्यादि जल्पता तल्पनिकटोपविष्टेन शुद्धान्तजरतीजनेन क्रियमाणविविधशिशुरक्षाविधानम्, अधिकोदञ्चितात्मभिरचञ्चलावस्थानैरुत्थाय विस्मितैरिव त्रिभुवनातिशायिशोभमर्मकरूपमवलोकयद्भिर्मङ्गलप्रदीपैः प्रकाशिताभ्यन्तरं प्रियायाः प्रसूतिगृहमविक्षत् ॥
 
प्रविश्य च सतर्षमुद्भूतप्रहर्षस्मितो विस्मयस्तिमितपक्ष्मणा लोचनयुगेन स्फुटविभाव्यमानसकलचक्रवर्तिलक्षणां प्रतिक्षणमवलोक्य सूनोस्त्रिभुवनविलक्षणामवयवश्रियम्, अमन्दनिर्गतानन्दाश्रुबिन्दुरप्रतिपादनीयां सुखमयीं कामपि दशां प्राप । निर्गत्य च विमोचिताशेषबन्धनः सदृशमाधिपत्यस्य भूतेरुदारतायाः प्रमोदस्य च निजस्य विस्मापितजगत्त्रयं मासमात्रमनुदिवसमुत्सवमकारयत् ॥
 
अतिक्रान्ते च षष्ठीजागरे, समागते च दशमेऽह्नि, कारयित्वा सर्वनगरदेवतायतनेषु पूजाम्, मानयित्वा मित्त्रज्ञातिवर्गम्, अभ्यर्च्य गुरुजनम्, दत्वा समारोपिताभरणाः सवत्साः सहस्रशो गाः सुवर्णं च प्रचुरम् आरम्भनिःस्पृहेभ्यो विप्रेभ्यः, स्वप्ने शतमन्युवाहनो वारणपतिर्दृष्ट इति संप्रधार्य, तस्यैव स्वप्नस्य सदृशमात्मीयनान्म्नश्चैकदेशेन समुदायवाच्येन चार्थेन समर्थितानुहारं हरिवाहन इति शिशोर्नाम चक्रे ।
 
क्रमेण च प्रसवदिवसादारभ्य तत्कालोपजातप्रसवाभिरव्यङ्गनीरोगाङ्गयष्टिभिराप्ततया निपुणमवधृताभिर्धात्रीभिरनवरतमुपचर्यमाणस्य, शुद्धपक्षचन्द्रमस इव प्रतिदिवसोपचीयमानदेहा-