This page has been fully proofread once and needs a second look.

५८
 
तिलकम अरीसंग्रहः ।
 
आहरत भगवतीतीं षष्ठीदेवीम्, निधत्त पर्यन्तेषु शयनस्य सद्योऽभि-
मन्त्रितां रक्षाभूतिरेखाम्' इत्यादि जल्पता तल्पनिकटोपविष्टेन
शुद्धान्तजरतीजनेन क्रियमाणविर्विधशिशुरक्षाविधानम्, अधि-
कोदविञ्चितात्मभिरच ञ्चलावस्थानैरुत्थाय विस्मितैरिव त्रिभुवनाति-
शायिशोभमर्करूपमवलोकयद्भिर्मङ्गलप्रदीपैः प्रकाशिताभ्यन्तरं प्रि-
याया:याः प्रसूतिगृहमविक्षत् ॥
 

 
प्रविश्य च सतर्षमुद्भूतप्रहर्षस्मितो विस्मयस्तिमितपक्ष्मणा
लोचनयुगेन स्फुट-विभाव्यमानसकलचक्रवर्तिलक्षणां प्रतिक्षणमन-
लोक्य सूनोस्त्रिभुवनविलक्षणामवयवश्रियम्, अमन्दनिर्गतानन्दा-
श्रुविबिन्दुरप्रतिपादनीयां सुखमयीं कामपि दशां प्राप । निर्गत्य च
विमोचिताशेषबन्धनः सदृशमाधिपत्यस्य भूतेरुदारताया:याः प्रमोदस्य
च निजस्य विस्मापितजगत्त्रयं मासमात्रमनुदिवस मुत्सवमका-
रयत् ॥
 

 
अतिक्रान्ते च षष्ठीजागरे, समागते दशमेऽहिह्नि, कारयि-
त्वा सर्वनगरदेवतायतनेषु पूजाम्, मानयित्वा मित्त्रज्ञालितिवर्गम्,
अभ्यर्च्य गुरुजनम्, दत्वा समारोपिताभरणाः सवत्साः सहस्रशो
गा:
गाः सुवर्णं च प्रचुरम् आरम्भनि:निःस्पृहेभ्यो विप्रेभ्य:यः, स्वप्ने शत-
मन्युवाहनो वारणपतिर्दृष्ट इति संप्रधार्य, तस्यैव स्वप्नस्य सदृश-
मात्मीयनान्नश्चैकदेशेन समुदायवाच्येन चार्थेन समर्थितानुहारं
हरिवाहन इति शिशोर्मानाम चक्रे ।
 

 
क्रमेण च प्रसवदिवसादारभ्य तत्कालोपजातप्रसवाभिर-
व्यङ्गनीरोगाङ्गयष्टिभिराप्तया निपुणमबघृवधृताभिर्धात्रीभिरनवरत-
मुपचर्यमाणस्य, शुद्धपक्षचन्द्रमस इव प्रतिदिवसोपचीयमानदेहा-